पृष्ठम्:हर्षचरितम् (लघुसङ्ग्रहः).pdf/२८

पुटमेतत् सुपुष्टितम्
४]
२५
सप्तम उच्छ्वासः ।

राजा, दण्डानुसाराधिरोहिण्या दृशा सादरम् ऐक्षिष्ट त्रैलोक्याद्भुतं तन्महच्छत्रम् । दृष्टे च तस्मिन् राज्ञा, शेषमपि प्राभृतं प्रकाशयांचक्रुः क्रमेण कार्माः ॥

 राजा तु छत्रदर्शनात्प्रहृष्टहृदयः, प्रथमप्रयाणे शोभनं निमित्तमिति मनसा जग्राह । अपनीते च तस्मात्प्रदेशात्प्राभृतसंभारे, क्षणमिव स्थित्वा "हंसवेग, विश्रम्यताम्” इति प्रतीहारभवनं विसर्जयांबभूव । स्वयमप्युत्थाय स्नात्वा मङ्गलाकाङ्क्षी, प्राङ्मुखः प्राविशदाभोगस्य छायाम् । विशत एवास्य छायाजन्मना जडिम्ना कुमुदमयमिव हृदयमभवत् । आहारकाले च हंसवेगाय विलिप्तशेषं चन्दनं वाससी परिवेषं नाम कटिसूत्रं तरङ्गकं नाम कर्णाभरणं प्रभूतं च भोज्यजातं प्राहिणोत् । एवंप्रायेण च क्रमेण जगाम दिवसः ॥

 ततः अंशुमाली आभोगातपत्रप्रदानवार्तामिव निवेदयितुं वरुणाय वारुणीं दिशमयासीत् ॥

 अस्यां च वेलायां विततवितानतलवर्ती नरेन्द्रः "कथय संदेशम्” इति हंसवेगमादिष्टवान् । प्रणम्य स कथयितुं प्रास्तावीत्--“देव पुरा वराहसंपर्कसंभूतगर्भया भगवत्या भुवा नरको नाम सूनुरसावि रसातले । महात्मनस्तस्यान्वये भगदत्तपुष्पदत्तवज्रदत्तप्रभृतिषु व्यतीतेषु बहुषु महीपालेषु, प्रपौत्रो महाराजभूतिवर्मणः पौत्रश्चन्द्रमुखवर्मणः पुत्रो देवस्य स्थितिवर्मणः सुस्थिरवर्मा नाम महाराजाधिराजो जज्ञे । तस्य च श्यामादेव्यां भास्करद्युतिर्भास्करवर्मा नाम कुमारः समभवत् । अयमस्य शैशवादारभ्य संकल्पः स्थेयान्--स्थाणुपादारविन्दद्वयात् ऋते नाहमन्यं नमस्कुर्यामिति । ईदृशश्चायं मनोरथः, सकलभुवनविजयेन वा मृत्युना वा यदिवा जगत्येकवीरेण