पृष्ठम्:हर्षचरितम् (लघुसङ्ग्रहः).pdf/३२

पुटमेतत् सुपुष्टितम्
२९
सप्तम उच्छ्वासः ।

किंपुनः सकलजनमनोमुषि विदुषि जने यतो नः कुतूहलि हृदयमभूत्सततमस्य दर्शनं प्रति ।प्रासङ्गिकमेवेदमापतितमतिकल्याणम् । पश्यामः प्रयत्नप्रार्थितदर्शनं जनम्” इति । "अङ्ग, समुपदिश तमुद्देशम्, यत्रास्ते स पिण्डपाती” इत्येवमुक्त्वा च तेनैवोपदिश्यमानवर्त्मा प्रावर्तत गन्तुम् ॥

 अथ नानादेशीयैः शिलातलेषु उपविष्टैः संशयानैश्च निश्चिन्वद्भिश्च विवदमानैश्च व्याचक्षाणैश्च शिष्यतां प्रतिपन्नैर्दूरादेवावेद्यमानम्, अरुणेन चीवरपटलेन म्रदीयसा संवीतम्, तत्त्वं तपसः, कोशं कुशलस्य, वेश्म विश्वासस्य, मध्यमे वयसि वर्तमानं दिवाकरमित्रमद्राक्षीत् । अतिप्रशान्तगम्भीराकारारोपितबहुमानश्च सादरं दूरादेव शिरसा मनसा वचसा च ववन्दे ॥

 दिवाकरमित्रस्तु संपादितससंभ्रमाभ्युत्थानः, स्निग्धमधुरया वाचा सगौरवम् आरोग्यदानेन राजानमन्वग्रहीत् । पार्श्वे स्थितं च शिष्यमब्रवीत्--"आयुष्मन्, उपानय कमण्डलुना पादोदकम्" इति । राजा तु "भगवन्, दर्शनपुण्यानुगृहीतस्य मम पुनरुक्त इवायमार्यप्रयुक्तः प्रतिभात्यनुग्रहः । पाद्यमप्यपार्थकम् । आसतां भवन्तो यथासुखम् । आसीनोऽहम्" इत्यभिधाय क्षितावेवोपाविशत् । स्वमेवासनं पुनरपि भेजे भदन्तः ॥

 स्थित्वा च कांचित्कालकलाम्, अवादीत्--"अद्यप्रभृति न केवलमयमनिन्द्यः, वन्द्योऽपि प्रकाशितसत्सारः संसारः । किं नाम नालोक्यते जीवद्भिरद्भुतम्, येन रूपमचिन्तितोपनतमिदं दृक्पथमुपगतम् । एवंविधैरनुमीयन्ते जन्मान्तरावस्थितसुकृतानि हृदयोत्सवैः । इहापि जन्मनि दत्तमेवास्माकममुना तपःक्लेशेन फलम् असुलभ