पृष्ठम्:हर्षचरितम् (लघुसङ्ग्रहः).pdf/३८

पुटमेतत् सुपुष्टितम्
३५
अष्टम उच्छ्वासः

समाप्तकृत्येन काषायाणि । अतः परं भवन्त एव बहुतरं जानन्ति" इत्युक्त्वा तूष्णींबभूव नरपतिः ॥

 भूयस्तु बभाषे भदन्तः- "भव्या न द्विरुच्चारयन्ति वाचम् । चेतसा प्रथममेव प्रतिग्राहिता गुणास्तावकाः कायबलिममुना जनेन । उपयोगश्चास्य लघुनि गुरुणि वा कृत्ये गुणवदायत्तः" इति ॥


 अथ तथा तस्मिन्नभिनन्दितप्रणये प्रीयमाणः पार्थिवस्तत्र तामुषित्वा विभावरीम् उषसि वसनालंकारादिप्रदानपरितोषितं विसृज्य निर्घातम् आचार्येण सह स्वसारमादाय प्रयाणकैः कतिपयैरेव कटकमनुजाह्नवि निविष्टं प्रत्याजगाम ॥

इति हर्षचरिते स्वसृलाभो नाम अष्टम उच्छ्वासः ॥


॥ समाप्तं हर्षचरितम् ॥