पृष्ठम्:हर्षचरितम् (लघुसङ्ग्रहः).pdf/५

पुटमेतत् सुपुष्टितम्
हर्षचरिते

 आसीनं च पप्रच्छ–" क भैरवाचार्यः? ” इति । सादरनरपतिवचनेन मुदितमनास्तु परिताद् तम् उपनगरं सरस्वतीतटवनावलम्बिनि शून्यायतने स्थितम् आचचक्षे । “अर्हयति महाभागं भगवान् आशीर्वचसा " इत्युक्त्वा च उपनिन्ये भैरवाचार्यप्रहितानि रत्नधन्ति पञ्च राजतानि पुण्डरीकाणि ।

 नरपतिस्तु “ सर्वफलप्रसवहेतुः शिवभक्तिः मनोरथदुर्लभानि फलति नः फलानि । श्वो द्रष्टास्मि भगवन्तम्" इत्युक्त्वा मस्करिणं व्यस्रर्जयत् ।।

 अपरेद्युश्च प्रातरेव उत्थाय वाजिनम् अधिरुह्य , कतिपयैरेवराजपुत्रैः परिवृतः, भैरवाचार्यं द्रष्टुं प्रतस्थे । गत्वा च, महतः कार्पटिकभृन्दस्य मध्ये, प्रातरेव स्नातम्, अनुष्ठिताग्निकार्यम् , अबहुभाषिणम् , मन्दहासिनम् , सर्वोपकरिणम् , कुमारब्रह्मचारिणम् , धाम धर्मस्य, क्षेत्रं क्षमायाः आकरं करुणायाः भगवन्तं भैरवाचार्यं ददर्श।  भैरवाचार्यस्तु दूरादेव राजानं दृष्ट्वा शशिनमिव जलनिधिः चचाल । प्रथमतरोत्थितशिष्यलोकश्व उत्थाय प्रत्युज्जगाम। समपैितश्रीफलोपायनश्च स्वस्तिशब्दम् अकरोत् । नरपतिरपि दूरावनतः प्रणममभिनवं चकार ।

 भैरवाचार्योऽपि समुचितम् अर्घ्यादिकं चक्रे । राजापि विविधाभिः कथाभिः चिरं स्थित्वा गृहम् अगात् ।  अन्यस्मिन् दिवसे भैरवाचार्योऽपि राजानं द्रष्टुं ययौ । तस्मै च राजा सान्तःपुरं सपंरिजनं सकोशम् आत्मानं निवेदितवामन् । स च स्थित्वा कंचित्कालं जगाम ।।