१ द्वित्राध्यायः ॥ हस्त्यायुर्वेदः। ३५१ व्रणस्य त्रिविधा योनिर्यस्य वै जायते व्रणः ॥ उद्मो वैकृतं दाहस्तस्यापि त्रिविधः स्मृतः ॥ १२ ॥ तत्रास्य उद्रमो ज्ञेयो द्विविधः शास्रनिश्चयात् ॥ देहे दोषसमुत्थश्च पश्च यादृच्छिक भवेत् ॥ १३ ॥ तत्र वाताकफारिपत्तन्मेदसः शोणितादपि । उद्मः संनिपाताश्च जायते दोषसंभवः ॥ १४ ॥ यादृच्छिकोऽपि विज्ञेयः स्व(घ)पथुर्विविधारमकः । विषाणां चापि संसर्गाद्रव्यैश्चैवाभिघाततः ॥ १५ ॥ श्वयथोर्वेदना वातात्पित्तात्पाकः कफाद्वतिः ॥ यस्तत्र बलवान्दोषस्तेन तस्य तदात्मता ॥ १६ ॥ अल्पो वृत्तस्तु कठिनो ग्रन्थिरित्यभिधीयते । पृथुय दीर्घः शोफः स्याद्विद्रधिर्गजकुम्भवत् ॥ १७ ॥ विकृतानामियं योनिस्तद्विधानं प्रचव)क्ष्यते । धृष्टं दष्टं क्षतं चैव तस्या भवति लक्षणम् ॥ १८ ॥ तत्र रज्ज्वादिभिर्जुष्टं दष्टं चाऽऽशीविषादिभिः । गज व्रणकर्भावैस्तीक्ष्णैर्वेक्षतमुच्यते ॥ १९ ॥ छेदनं व्यधनं चैव द्रव्यैर्नानाविधारभकैः ॥ अवकृत्तवपृष्ठे च पृथगेतच्चतुर्विधम् ॥ २० ॥ ततस्तस्य भवेचिछन्नं विभागापञ्चलक्षणम् । छिन्नं विच्छिन्नमुत्स्रष्टमवकृष्टं स (च) दारितम् ॥ २१ ॥ तत्र च्छिन्नमिति ज्ञेयं सर्वशोऽङ्गापवर्तनम् ॥ प्रहारसंनिपातस्तु विच्च्छिनर्मित कीर्यते ॥ २२ ॥ कर्णालङ्कहस्तानां द्विधाभावस्तु दारितम् ॥ अवकृष्टं तु विज्ञेयमधः स्थावस्थिमांसगम् ॥ २३ ॥ एतदेव विपर्यस्तमुत्कृष्टमिति कीर्यते । इति पञ्चविधं छिन्नं विभागात्संप्रकीर्तितम् ॥ २४ ॥ विद्धस्यापि तु विज्ञेयः प्रविभागश्चतुर्विधः । निविद्धमनविद्धं च विद्धमुक्षुण्डितं च यत् ॥ २५ ॥ + ' वैक्षतं, विक्षतं वा स्यादग्रिमग्रन्थानुसारात् । * विक्षतानाम्' इति भवेत् , अग्रिमपाठानुसारात् । ‘स्नाय्वस्थिमांसगम्’ इति स्यात् ।
पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१२
एतत् पृष्ठम् अपरिष्कृतम् अस्ति