पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२ शस्योद्धरणाध्यायः ] ' इस्त्यायुर्वेदः । अप्राप्तसंधिशल्पे च शल्यनिर्हरणं भवेत् || विशल्यं च व्रणं कृत्वा प्रतिकर्म समाचरेत् ॥ ७ ॥ लम्बितं व्यथितं छिन्नमवकृत्तं च यद्भवेत् || दुर्जातं च व्रणं दृष्ट्वा प्रतिकर्मास्य कारयेत् ॥ ८ ॥ क्षौमसूत्रेण मेधावी सीवनं चास्य कारयेत् ।। पूर्वोक्ता च क्रिया तस्य कारयेद्रणशान्तये ॥ ९ ॥ विद्धः शरेण काकोला' “छिनरोहयोः ॥ 'चूर्णेश्च प्रतिचूर्णयेत् ॥ ११० ॥ अथास्य शोफो भवति तेनैव प्रतिलेपयेत् || क्षीरवृक्षकषायेण सर्वेिषा चैव धारयेत् ॥ ११ ॥ शुध्यते च व्रणं तस्य क्षिप्रं चैव प्ररोहति ।। अथ दिग्धेन विद्धस्य वक्ष्यते भेषजक्रमः ॥ १२ ॥ स्व (श्व) पथोदिँग्धविद्धस्प पूतिमांससमुद्भवः || श्रा (स्त्रा) वो भवत्पशुद्धश्च भिन्नवर्णश्च जायते ॥ १३ ॥ स तप्तदेहश्च भवेच्छोफशेषश्च जायते ॥ एतानि पूर्वरूपाणि दिग्धविद्धस्य हस्तिनः ॥ १४ ॥ व्रणं तच्छोधयित्वाऽथ संस्कृतेनाथ सर्पिषा ॥ नस्पं तस्य ततो दद्याद गदं चानुपाचयेत् ॥ ११५ ॥ शीतप्रदेहं कुर्याच्च तथा सिध्यति पार्थिव ।। स्तब्धो विवर्णो विःसुप्तो (?) व्रणो यस्य तु हस्तिनः ॥ १६ ॥ स्थापयित्वा युतं स्थाने पत्रपित्वा यथाक्रमम् || तन्तुसूत्र पटेर्वाऽपि भौमसूत्रेण वा भिषक् || १७ || मुसीवनं व्रणं कृत्वा नागस्यैवं समाचरेत् || मधुव्रण विधानेन प्रतिकुर्याद्विषग्वरः ॥ १८ ॥ इतीह पृष्टो भगवान कुराजैन धीमता ॥ पालकाप्यः क्रियामाह शल्पस्योद्धरणं प्रति ॥ ११९ ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदे महाप्रवचने महापाठे तृतीये शल्पस्थाने शल्योद्धरणो नाम द्वादशोऽध्यायः ॥ १२ ॥