पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८८ पालकाप्यमुनिविरचितो- प्रदेः शीतश्चैवं प्रदिशासु पुनः पुनः ॥ सर्पिः क्षीरं च मागाय विधिवत्संप्रदापयेत् ॥ ११ ॥ शीतांश्च मधुरांश्चैवं भावांस्तस्मै प्रदापयेत् || यद्येवं नोपपद्येत क्षिप्रं प्राणैर्विमु उपते ॥ १२ ॥ सम्पग्वेधे सु दोषाणां समो वृद्धिर्विपर्यपात् || छव्यस्त्वपि महाराज षट्पूर्व संप्रकीर्तिताः || १३ || तासामेकैकशो राजन्प्रमाणं संप्रवक्ष्यते || [ ३ शल्यस्थाने- एका सत्र प्रमाणेन अध्यधं (धे) यवसंमिताः (ता) ॥ ९४ ॥ प्रथमा तु महीपाल द्वितीया द्विपवा स्मृता || शेषाणामेतदेवाऽऽहुः प्रमाणं मनुजाधिप ।। ९५ ॥ अध्यर्धाङ्गुलमेवं तु प्रमाणमभिधीयते ॥ श्वेयथुस्वपि विज्ञेयो दोषलिङ्गैः पृथग्विधैः ।। ९६ ।। व्रीहिवक्त्रेण शस्त्रेण विध्येदत्वरया भिषक् || अध चोत्पलपत्रेण कुशपत्रेण वा पुनः ॥ ९७ || त्र्यंङ्गुलं निर्गमं कुर्याद्गागं विज्ञाय तत्वतः || बहुलं च चतुश्चैव प्रदेशमभिलक्षपेत् ॥ १८ ॥ यथोक्तेनोपचारेण विध्येदत्वरपा नृप || दोषलिङ्गेन निर्मुक्तं विशुद्धं दोषवर्जितम् ॥ १९ ॥ प्रमुच्य पत्र विधिना निर्वाणे चावगाहपेत् || ' निवृत्तं पीतपानीयं भोजपेद्रसभोजनम् || १०० ।। एष सर्वो विधिः कार्यो भिषजा सिद्धिमिच्छता || अत ऊर्ध्वं शिराणां तु विचयः प्रवक्ष्यते ॥ १ ॥ येषु देशेषु यं दोषं यथोवद्विनिवर्तयेत् ॥ संप्रवक्ष्यामि नागानां तन्मे निगदतः शृणु ॥ २ ॥ अवग्रहस्य चाधस्तात्कुम्भस्योपरि संश्रिताः || विद्ववग्रहपोश्चापि (?) विज्ञेपा मध्यमाश्रिताः ॥ ३ ॥

  • 'श्चापि' इति भवेत् ||

१ क. श्रययुं स्व° । २ क. अङ्गुलं | ३ क. पूर्वो । ४ क ख संप्रचक्ष्यते । ५ क. 'थाविधि नि° ।