पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुनिविरचितो- श्वेत सर्षपमादाय पिप्पलीमरिचानि स || एतब्रुडेन संयुक्तं छापायां परिशोषयेत् ॥ ३० ॥ एतदञ्जनपामाभ्यां धूपने च प्रशस्पते ।। कुष्ठं ध्यामकसंयुक्तं वार्ताकीबीजमेव च ॥ ३१ ॥ देवदारु च· सर्पिश्च पुष्पाणि हासनस्य च ॥ त्रिफलाऽतिविषा कुष्ठं तथा पाषाणभेदकः ॥ ३२ ॥ गवां मूत्रेण पिष्टं तु क्षौद्रेण सह योजितम् || एतत्पानाञ्जने देयं गजानां हितमिच्छता ॥ ३३ ॥ पुराण "राजसिद्धार्थका वचा || हिङ्गुजीरकश्शुण्ठी च स्वर्पिश्चापि गुडं तथा ॥ ३४ ॥ दष्टे तु कुपिते पानं रसाञ्जनमनुत्तमम् || पिप्पली पिप्पलीग्रन्थिर्मधुसर्पिः समन्वितम् ॥ ३५ ॥ एरण्डदष्टं कुपिते पानं दद्यात्तथाऽञ्जनम् || आर्द्रकं सगुडं कुष्ठं घृतेन सह योजितम् ॥ २६ ॥ पिण्डं दद्याद्गजानां तु दष्टानामुपशान्तये || कुष्ठं च तगरश्चैव आर्द्रकं गुडमेव च || ३७ ।। श्वदष्टस्य सु नागस्य पिण्डं दद्याद्विचक्षणः || हरिद्रा हरितालं च मञ्जिष्ठा समनःशिला ॥ ३८ ॥ श्वेत सिद्धार्थकाः कुष्ठं कपित्थं तगरं तथा ॥ गोरोचना सुना पित्तं समभागानि योजयेत् ॥ ३९ ॥ तदभ्यञ्जनपानं च आलेषं चास्य दापयेत् || क्षीरमिक्षुरसं चास्मै अन्नपानं प्रदापयेत् ॥ ४० ॥ शाल्योदनं ससर्पिष्कं भोजयेन्मुद्गसंयुतम् || मृदुं च पवसं दद्यात्सर्पिश्चास्य प्रवर्तते ॥ ४१ || क्षान्तिश्चास्य क्रियायोगे सिद्धिः कर्माभिनीतवत् || अन्तरिक्षगताः श्वानः कामगां दिव्यचारिणः ॥ ४२ ॥ तेषां मूत्रपुरीपाणि लालाश्चापि विषं भवेत् || दष्टवद्भजते रूपं सीदत्यपि च ६ष्टवत् || ४३ || १ क. 'मादित्यचा ° । २ क तू ॥ दृष्ट° | ३ क. दृष्टवत् । - [१ शस्यस्थाने- ·