पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/२४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

● स्नेहविध्यध्यायः ] इस्त्यायुर्वेदः । सत्र सर्पिः पाने' सुखोष्णोदकेनावसेकः पानं वानुसंभवः || स्नेहपानगुणानन्यत् (न्यान्) प्रवक्ष्याम्पत उत्तरम् । तत्र तावत्प्रवक्ष्यामि महापीनीगुणोदयम् || तत्रोपर्युक्तया विधिवदुत्साहं जनयत्यपि | लाघवं चैव गात्राणामथवाऽमेर्विवर्धनम् || अध्वनस्तूर्ण गमनं महतश्चाम्भसो भवेत् । लवणं मर्दनं चैव गृहमाकारदन्तिनाम् || कर्माण्येतानि मातङ्गो गुरुण्यन्यानि यानि च । तानि पीनीगुणैर्युक्तः करोत्यपपरिश्रमम् || दृढसर्वेन्द्रियबलः प्रसन्नत्वतनूरुहः | भवत्युत्साह संपन्नो यथाकालप्रभेदनः ॥ दुःस्थानमथ दुःशय्यां वधबन्धाभिघातनम् । स्नेहपीतो विषहते शीतमुष्णं च वारणः || मुखसंवर्तनप्रेक्ष्यः सुखस्थानोपवेशनः । भवत्यपि च मातङ्गः मुखसर्वाङ्गचेष्टितः ॥ अत ऊर्ध्वं तु नागानां सर्वसेके गुणामृणु | गुरुप्मनो मलहरः स्नेहनो बलकृत्तथा ॥ मृदुकरश्चेति गुणाः षडम्पङ्गे प्रकीर्तिताः । एतत्ते कीर्तितं राजन्यथा पृष्ठं त्वयाऽनघ ||

      • HOOD

। • अथ प्रोवाच नृपतिर्विनपेन कृताञ्जलिः | यस्तु दृष्टो भगवता आहारविधिविस्तरः || सर्व दास्यामि नागेभ्यो तत्ते तस्मिन्महामुने | गुणा ये भगवन्दृष्टा तन्मे व्याचक्ष्व पृच्छतः || एकैकस्प च ये दोषा गुणाश्चैव महामुने । ततः प्रोवाच भगवान्पालकाप्यो महामुनिः || कृत्पाकृत्पविधि सर्व वारणानां यथाक्रमम् | ( * शृणु सर्वमशेषेण यत्त्वं मां, परिपृच्छसि ॥

  • धनुश्विकद्वयान्तःस्थो नास्ति पाठः कपुस्तके ||

• १ क. 'युक्तवि। २ क. दतः । दुः । ५८३