पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/२७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालका सप्तरामं तुराजेन्द्र कर्मोत्तममिति स्मृतम् ।। द्वे मध्यमधर्म त्वेकं वितत्संप्रकल्पयेत् ॥ ३१ ॥ उत्तमे वोत्तमं ज्ञेयं मध्यमे वाऽपि मध्यमम् ।। अधमे स्वधमं नित्यं भाव यथावलम् ॥ २४ ॥ सप्ताहात्परतः स्रेहः सात्मीमावाच निर्गुणः || तस्य विश्रम्य दातव्यं स्नेहं वा व्यहमेव वा ॥ ३५॥ कालस्तु दामाद्विगुणः परिहारो विधीयते ॥ बलवर्णसमाधौ च ततः सर्व समाचरेत् || ३६ ॥ व्यायामं भारदरणं गमनं सहसाऽध्वनि || अतिस्थानं च शपनं युद्धव्यायाममेव च ॥ ३७ ॥ दुस्थानमय दुःशय्यां तथाऽत्पशनमेव च ॥ असात्म्यभोजनं वाऽपि तथा भोजनमेव च ॥ ३८ ॥ अत्युष्णमतिशीतं च तथा वर्षानिलानपि ॥ शब्दादीनि स सर्वाणि प्रतिकूलानि यानि च ॥ ३९ ॥ बस्तौ दत्ते न सेवेत परिद्वारे तथैव च || बलवर्णसमग्रो हि सहते विषमान्यपि ॥ ३४० ॥ एतत्सर्व समाख्यातं यथोद्दिष्टं विशां पते || बस्ति कर्मविधानं हि कृत्स्नं तुभ्यमरिंदम ॥ ४१ ॥ - तत्र श्लोक:- इमं विधि यो निखिलेन कुर्याद्विधातुमापत्सु च यो न सीदति ॥ स भूमिपालेन विधासुमोषधं गजेषु कार्यो मिषजां वरस्तदा ॥ ४२ ॥ इति ।। इति श्रीपालकाप्पविरचिते हत्यायुर्वेदमहाप्रवचने श्रीपाठे चतुर्थ उत्तर- स्थाने बस्तिदानकथनं नाम पञ्चमोऽध्यायः ★ अथ षष्ठोऽध्यायः । 4 अथ भगवन्तं पालकाप्यमा श्रमस्थ मङ्गराजोऽभिवन्यावतीत् भगवन् कीदृशे भूमिभागे कस्पां दिशि हस्तिनः शाला कर्तव्या, कि प्रमाणम्, कीटशी, कि संस्थानम्, ज्याभागो द्वारं वा कस्यां दिशि हस्तिशाळापाः कथं वा कस्मि मृतो विधानलमिच्छामि वेदितुं सदशेषेण, भगवन् व्यायातुमईसि ||