पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रद्यःक्षतचिकित्सिताध्यायः ] इत्यायुर्वेदः। २७७ शृणुष्व मे महाराज पथं दीयते पयः । (* इमे च सर्वे ऋषपः) सहितास्तु वयाऽनघ ॥ ४४ ॥ अस्पषं शोणितं यैस्य निःसृतं वारणस्य वै । तस्मै श्रीरं प्रदेयं स्याद्घृतयुक्तं महीपते ॥ ४५ ॥ जातिसारम्यातु नागानां श्रेष्ठं कायाग्निदीपनम् ।। क्षीरं सर्वत्र मधुरं बल्यं रक्तमसादनम् ॥ ४६ ॥ जीवनं वातरोगग्नं बलवृद्धिकरं च ते ॥ रसायनं च पथ्यं च हृषं वृष्यं गदापहम् ॥ ४७ ॥ अतिप्रवृत्ते रुधिरे धातूनां जायते क्षयः ॥ + तन्पूळ धातवः सर्वे क्षयच्च मरणं ध्रुवम् ॥ ४८ ॥ तस्मात्क्षीरं भवेद्देयं संधैर्मधुरकैः (ङ्)तम् ॥ एतदर्थं महाराज क्षीरषानं विधीयते ॥ ४९ ॥ अतः परं प्रवक्ष्यन्ते व्रणोपक्रमहेतवः । महारविगतोष्माणं स्थितं च रुधिरं यदा ॥ ५० ॥ द्वित्रणीयोपचारेण साधयेच्छोधनादिना । यवसैः प्रतिपानैश्व ब्रहयुक्तैश्च भोजनैः ॥ ५१ ॥ संजातप्राणमसस्य प्रति पूर्णेषु धातुषु । स्नेहपानोपचारेण ब्रहमच्छं प्रयोजयेत् ॥ १२ ॥ नेहेन च विर(रि)क्तस्य बस्तिकर्म प्रशस्यते । सुविरिक्तं च विज्ञाय स्नेहपानं प्रेवर्तयेत् ॥ ५३ ॥ अविरिक्तस्य तैलेन शृणु दोषं नराधिप । आक्षेपं वा विलभते अतीसारमोचकम् ॥ ५४ ॥ अथवा पाकलं घोरं मरणं वा नियच्छति ॥ एते चान्ये च बहवो दोषाः स्युर्दविं रिक्ततः ॥ ५५॥ सुविरिक्तस्प वै राजन् बलं तेजश्च वर्धते । नहपानविधिश्चैव बस्तिदानविधिस्तथा ॥ ५६ ॥ तस्मिस्तस्मिन्पॅकरणे पुरस्तादेव कीर्पते ॥ एतत्ते सर्वमाख्यातं यन्मां पृच्छसि पार्थिव ॥ ५७ ॥

  • कपुस्तके नोपलम्यते । ‘धातूनां क्षये हेतुप्रदर्शनपरोऽयं पादः ॥

१ क, तस्य । २ ख. यत् । ३ ख. निवर्तयेत् । ४ क. °प्रकारेण पु° । ८