पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४०८ पालकाप्यसुनिषिरत्रितो- [१ शस्यस्थाने कथं कल्माषजिह्वो वा गजो भवति जातिवः ॥ पिङ्गलः केन भवति मध्वक्षः केन जायते ॥ १९ ॥ हर्यक्षः केन मागः स्पाकाकाक्षः केन जायते ॥ अक्षिणी केन थ्छे तु कालतारे पुनः कथम् ॥ २० ॥ गजः पारापताक्षो वा कथं भवति जातितः । विकृताक्षो विषाक्षो जातान्धो वsपि वारणः॥ २१ ॥ केन जायते वै नागः कालः पिङ्गललोचनः । केन मुखाच्च हस्तच्च स्वेदो नैवति दन्तिनः ॥ २२ ॥ कस्मिन्देशे च वृषणावदृश्यौ केन वा पुनः । म्लानशीर्षे म्लानमुखो विकटो बधिरस्तथा ॥ २३ ॥ हस्ववालश्च मातङ्गो दीर्घवलः कथं भवेत् । विषमाभ्यां च कर्णाभ्यां पुष्टकर्णश्च वारणः ॥ २४ ॥ नष्टकर्णश्च मातङ्गः कथं भवति जातितः ॥ २५ ॥ कुष्ठी किलासी विततः काणो हीनोऽथवा पुनः । कुजः किलासमेट्सश्च कथं भवति वारण ॥ २६ ॥ अतिताश्च ये दन्ता ये च दन्तः सुलोहिताः । यथा भवन्ति तद्ब्रूहि मधुवर्णाश्च दन्तिनः ॥ २७ ॥ ग्लानवक्त्रः कथं नागो ग्रन्थिदन्तस्तथैव च । मुक्ता विषणेषु कथं नागानां संभवन्ति च ॥ २८ ॥ मलनगात्र भवन्केन स्तब्धगात्रस्तथैव च । मृदुगात्रश्च मातङ्गः कथं भवति जातितः ॥ २९॥ समपूर्धा भवेकेन तथा प्राप्तविदुर्गजः ॥ उदपूर्धा स च कथं गजो भवति जातितः ॥ ३० ॥ मदं गृह्णाति मातङ्गः केन प्रथमयौवने ॥ अमदो वा भवेकेन यावदायुर्मतङ्गजः ।। ३१ ॥ गूढः कथं संभवति समदन्तश्च वारणः ॥ मत्कुणश्चैकदन्तश्च कथं स्यातां मतङ्गजो ॥ ३२ ॥ करेणुः केन भवति त्रिविषाणः कथं भवेत् ॥ गजश्चतुर्विंणो वा कथं भवति जातितः ।। ३३ ।। १ क, मुस्ल्याच्च । २ क, गच्छति । ३ क, मोटः।