पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४ पालकाप्यमुनिविरचितो- [ १ क्षुद्ररोगत्पते-- अजाक्षीरं वसां मज्जां घृतेन सह संसृजेत् । ततोऽस्य सेचयेद्रात्रमनेन विधिना भिषक् ॥ मूलान्युत्पलजम्बूनां करवीरोत्पलानि च । सघृतं मृत्तिकामिश्र प्रलेपं तस्य कारयेत् ॥ शीतेनानेन कल्केन विहितं चानुलेपनम् । यावदूष्मप्रशमनं श्वयथोश्च निवर्तनम् । स्वेदनं मर्दनं चैव प्रथमं यत्तु कीर्तितम् ॥ स्तब्धगात्रे हि तदपि निरुष्मण्युपपादयेत् । विविक्तं सततं स्थानं व्यायामं च विसर्जयेत् ॥ सर्पिः क्षीरं च पानार्थे यथोक्तं च लेपने । सहसा दन्तिनोऽङ्गेषु यदा कुप्यति मारुतः ॥ ततः पित्तादयो दोषा दुष्यन्ति पवनाहताः । स्वस्थस्यास्य तु गात्रेषु श्वयथु जनयन्ति ते ॥ समागच्छति चैतेन विषमै वाऽपि वर्धते । न सुखं लभते स्थाने न शय्यामभिनन्दति ॥ तमाहुर्वारणं वैद्याः शूनमकाङ्गशैोषिणम् । ग्रासद्वेषो दौर्मनस्यं सस्त(?)श्रवणबालयोः ॥ दन्तिनो मक्षिकाश्चैव पूर्वलिङ्गानि मृत्यवे । विपर्यये तु लिङ्गानां भवेत्साध्यस्य लक्षणम् ॥ श्लीपदान्यपि जायन्ते घोररूपाणि दन्तिनाम् । तस्य दोषविशेषं तु परीक्ष्य मतिमान्भिषकू । यथोक्तमेव कुर्वीत पूर्वोक्तमुपक्रमम् ।

  • भ्रष्टगात्रस्य विज्ञानं चिकित्सा च प्रवक्ष्यते ॥

यदा क्षितोपविद्धो वा पाशबद्धोऽपि वा गजः । शुषिरे हुपपन्ने वा सहसा च प्रधावति ॥ हस्तिना वाऽप्यभिहतस्तोत्रवित्रासितोऽपि वा । आक्षेपाज्जायते तस्य श्वयथुर्वातरक्तजः ॥

  • इतः प्रागgष्टच्छिन्नस्य लक्षणादि श्रुटितमिति प्रतिभाति ।

१ क. प्रलेपनम् ॥ २ ख. *शेकिण० । ३ ख. "म् ॥ श्रीप° । ४ ख. क्षिताप° ।