पृष्ठम्:हस्त्यायुर्वेदः.pdf/१६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धासकीमद्वनौ चोभौ काइंमपः प्रस्थयोर्जवौ ॥ सूक्ष्मचूर्णानि कृत्वा तु तं ब्रणं प्रतिसारयेत् ॥ ३५ ॥ ततः शोणिसवेगं तचूर्णेनानेन तिष्ठति ॥ पदि वाऽनेन योगेन शोणितं न प्रतिष्ठते ॥ ३६ ॥ मधुकं चन्दनं रोभं सर्ज पद्मकमेव वा । सूक्ष्मचूर्णानि कृत्वा तु तं व्रणं प्रतिसारयेत् ॥ ३७ ॥ गोधूमचैव रोधं च कदम्बचैव गैरिकम् ॥ सूक्ष्मचूर्णकृतैरेतैस्तं ऋणं प्रतिसारयेत् ॥ ३८ ॥ अर्जुनश्च धवचैव पष्टी भधुकमेव च । सूक्ष्मचूर्णानि कृत्वा तु तं व्रणं प्रतिसारयेत् ॥ ३९ ॥ समुद्रफेनं तेजोह्वां गोमयस्य रसेन च ॥ शङ्खमध्यं मधुक्षीरमरिमेदस्य ग्रन्थयः ॥ ४० ॥ तथा पलाशनिर्यासो नियसस्तिमिशस्य च ।। भूमीकदम्बकश्चैव गैरिकः सह लाक्षया ॥ सूक्ष्मजूर्णानि कृत्वा तु तं व्रणं प्रतिसारयेत् ॥ ४१ ॥ एभियोगैर्यथाप्रोतैर्यदि रतं न तिष्ठति । अवगाहं महाराज वारणं तु प्रवेशयेत् ॥ ४२ ॥ गम्भीरे शीतले देशे ण(न)ष्टतृणशर्करे ॥ यदि चैभिः क्रियायोगैः शोणितं न प्रतिष्ठते ॥ ४३ ॥ अश्वत्थोदुम्बरं चैव न्यग्रोधं काकजम्बुकम् । .क्षोदयित्वा महाराज महास्थालीषु पाचयेत् ॥ ४४ ॥ काथेनानेन शीतेन तं व्रणं प्रतिषेचयेत् ।। अथाभिश्च मयोक्तव्यो विधिना तेन दन्तिनाम् ॥ ४५ ॥ सर्पिषा म्रक्षयित्वाऽथ अमिकर्म प्रयोजयेत् ।। नातिदग्धं व्रणं कुर्यादामदग्धं चिकित्सितम् ॥ ४६ ॥ गन्धनिर्वापणार्थाय सर्पिषा परिषेचयेत् ॥ शस्रामिमणिधानोत्तैस्तैश्च निर्वापयेद्वजम् ।। ४७ ।। पानं च सर्पिषा मिश्र क्षीरमस्य विधीयते । यथावकाशे भहति शस्रकर्म विधीयते. ॥ ४८ ।। १ क. प्रतष्ट* ।