पृष्ठम्:हस्त्यायुर्वेदः.pdf/२९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६३२ एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥ (*उसमे वारणे वचादिक्षुपश्वशतान(न्प)पि ॥ २ ॥ द्वे'शते च तद्धं च धन्याय भदापयेत् ) ॥ ३ ॥ ये गुणा इक्षुदानस्य ते' तान्वक्ष्यामि तत्त्वतः ॥ आरण्यानां तु नागानामिक्षुदानं प्रशस्यते ॥ ४ ॥ सर्वथैव च देयं च कालं देशं बलं प्रति ॥ दीर्घकालेन सिध्यन्ति भकृत्या शङ्गिताश्च ये ॥ ५ ॥ ये चैव पित्तला नागास्तथैवोष्मक्षताश्च ये ॥ इक्षुदानेनू सिध्यन्ति सर्पिषेक्षुरसेन वा ॥ ६ ॥ पुरोपा(य)नानुबन्धेन अत्यर्थायाम(स)सेवया । कुप्पन्ति धातवः सर्वे संनिरोधेन दन्तिनाम् ॥ ७ ॥ कायस्तम्भे शिरस्तम्भे भन्यास्तम्भे मदक्षये ॥ प्रासे प्रतिद्दते चैव शिरोरोगे च पैत्तिकाः ॥ ८ ॥ वैगुण्यकरणे चैव श्रुत्वाहतभपेऽपि च । शोकाऽभिभूते सततं वधबन्धनपीठयोः ॥ ९ ॥ श्रान्ते प्रस्विन्नसर्वाङ्गे स्रस्तकाये सुमर्दने ॥ इक्षुदानं मशंसन्ति सौमनस्पहिताय च ॥ १० ॥ मदक्षीणेषु नागेषु हिताः पथ्यास्तथैव च ॥ मेदसो वर्धनाचैव पित्तरक्तविनाशनाः ॥ ११ ॥ शुक्रवृद्धिकराचैव क्षीणधातुविवर्धनाः ॥ हणा जङ्गलाः स्रिग्धाः पित्तघ्राः कफवर्धनाः॥ १२ ॥ तुष्टिपुष्टिकराश्चैव च्छवीरोममसादनाः ॥ मधुराश्चापि(विवाहाश्च श्रेमदोषहराः स्मृताः ॥ १३ ॥ तस्मिन्काले प्रदातव्यमिक्षु कृत्याह() हस्तिने ।। ग्रीष्मकाले तु नागानां यहं कण्ठस्य मोक्षणे ॥ १४ ॥ इस्पञ्चवीत्पालकाप्यो राज्ञाऽङ्गेन मोक्तिः ।। १५ ।।

  1. धनुश्चिद्दान्तरगतो भ्रष्टः पाठः कपुस्तकात् । । ‘तांस्ते' इत्युतिम् ।

१ क. धीडिते ॥ १७ ॥ २ क, अश्रदोषहरः ।