पृष्ठम्:हस्त्यायुर्वेदः.pdf/५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९.ादशेपकमाध्यायः] हस्त्यायुर्वेदः । सत्यात्मशरीराद्दशगुणं भारमुद्वहति । तत्पुनाद्विविधम्-सहजम्, आहारजं च । तत्र सहजं सर्वभूतातिशयवद्धस्तिजन्मनान्तरीयकम् । तत्पुनः सत्त्वशरीरप्रमाणवी पैमदमभावैरुपचीयते । आहार(ज)बलमपि चतुर्विधेनाऽऽहारेण विवर्धते शरीरो पचयमा(ना)न्तरीयकम्। शरीरोपचयोऽपि सप्तविध(:)शोफाध्यायादवगन्तव्यः । सामथ्र्यबलमपि पुनरेकैकं त्रिविधम्-येष्ठं मध्यममधमं चेति । तत्रोत्तमबल शीतोष्णक्षुत्तृष्णातपदुर्दिनशस्रघातभारमर्दनजलतरणवधबन्धेषु शस्त्राभिक्षार कर्मादिषु च प्रयुज्यमानेषु नोद्विजते, न्नेहपानादींश्च विषहते । यथाऽयमं, तथा मध्यमाधमबलौ, इति । एवं बलमभिसमीक्ष्य क्रियापथं प्रयुञ्जीत । दोषोऽन्यथा भवति । तत्र यदा दुर्बलोऽयमिति मत्वा बलवत एव गजस्याल्पमैौषधं दीयते, तद्धीनमात्रमसमर्थमानक क्षपणाय भवति । यथाऽल्पोऽग्रिरिन्धनावष्टव्यः पवनो दीरितोऽपि न वृद्धिमुपगच्छति, एवमल्पौषधमसम्यक्प्रयुज्यमानम् । प्रत्युत व्याधिनिमित्तमेव भवति । तथा च क्रियापविचारनिमित्तभूताश्चत्वारो दुर्बलाः-प्रकृतिदुर्बलः, व्याधिदुर्बलः, वपोदुर्बलः, औषधदुर्बलश्च । ततो भैषज्यं तीक्ष्णं मृदु मध्यं च यथाबलं विभज्य प्रमाणतो दद्यादिति ॥ बलं विज्ञाय नागानां मात्रामात्रेति तत्त्वतः । पथास्वमौषधं दद्यादिति शास्त्रविनिश्चयः ॥ सत्त्वमपि नागानां क्रियापथेषु विज्ञेयम् । तच्च त्रिविधमेव-तामसं राजसं सात्त्विकमिति । तत्र तामससत्वा नित्योद्विग्रशीलत्वाच्छेदनलेखनदहनसी वनविस्रावणोद्धारणानि न विषहन्ते वारणाः, तेषां विलायनपाचनभेदनशो धनावसादनकृमिहरणान्यौषधैरेव प्रयोज्यानि, शस्रकर्माग्रिक्षारकर्माणि च ॥ राजसास्तु द्विरदपतयो वाक्यादिभिरुदकपांशुकवलैः समाश्वासिताश्छेदनभेद नानि विषहन्ते,सुमहत्यपि चामिकर्मणि क्रियमाणे । सात्विकास्तु प्रधानकर्म स्ववक्रियमाणेषु सत्वबलसमुच्छूयान्न. विक्रियामुपगच्छन्ति । इत्येवं त्रिविधं सत्वमनुव्याख्यातं भवति । तत्र श्लोकौ इति सत्त्वसमुद्देशस्त्रिविधः परिकीर्तितः । पारंपर्येण तेषां तु विहितः समुपक्रमः । १ क. १बलाबला भवन्ति, इ० । २ क. क्रियां प्र° । ३ क. १०थाऽल्पोपचयो भ० । ४ क. *धिविवृद्धिनि० । ९ क. ०साधन” । ६ क. “र्मसु च क्रि० ।