(१०८) [हितोपदेशे- शृणु देव! हर्षक्रोधौ समौ यस्य कोशः स्वल्पव्ययेन च । नित्यं भृत्यानुपेक्षा च तस्य स्याद्धनदा धरा ॥ १३५॥ येषां राज्ञा सह स्यातामुच्चयापचयो ध्रुवम् । अमात्या इति तानाजा नावमन्येत्कदाचन ॥१३६॥ यत महीभुजो मदान्धस्य मजतोऽकार्यसागरे। स्खलतो हि करालम्बः सुहृत्सचिवचेष्टितम् ॥ १३७ ॥' अथागत्य प्रणम्य मेघवर्णो ब्रूते- देव ! दृष्टिप्रसाद कुरु' इदानीं विपक्षो युद्धार्थी दुर्गद्वारि वर्तत । तद्देवपादाढेशाबहिनि सृत्य स्वविक्रम दर्शयामि तेन देवपादानामानृश्यमुपगच्छामि । ' चक्रवाको ब्रूते-' मैवम्, यदि बहिनि मृत्य योद्धव्य तदा दुर्गाश्रयणमेव निष्प्रयोजनम् । अपरं च- विषमो हि यथा नक्रः सलिलान्निर्गतोऽवशः। वनाद्विनिर्गतः शूरः सिंहोऽपि स्याच्छृगालवत् ॥१३८॥ देव ! स्वय गत्वा दृश्यता युद्धम् । यत'- पुरस्कृत्य बलं राजा योधयेदवलोकयन् । स्वामिनाधिष्ठितःश्वापि किं न सिहायते ध्रुवम्॥१३९॥' अथ ते सर्वे दुर्गद्वार गत्वा महाहव कृतवन्त । अपराश्चित्रवर्णो राजा गृध- मुवाच-'तात । स्वप्रतिज्ञातमधुना निर्वाहय ।' गृध्रो ब्रूते- देव शृणु। तावत्- अकालसहमत्यल्पं मूर्खव्यसनिनायकम् । अगुप्तं भीरुयोधं च दुर्गव्यसनमुच्यते ॥ १४०॥ तत्तावदत्र नास्ति- उपजापश्चिरारोधोऽवस्कन्धस्तीव्रपौरुषम् । दुर्गस्य लंघनोपायाश्चत्वारः कथिता इमे ॥ १४१॥ अत्र यथाशक्ति क्रियते यत्न '। चित्रवर्णः कथयति 'एवमेव ।' ततो- ऽनुदित एव भास्करे चतुर्वपि दुर्गद्वारेषु वृत्ते युद्धे दुर्गाभ्यन्तरगृहेष्वकदा काकै- रग्निनिक्षिप्तः । तत. 'गृहीत गृहीत दुर्गम् ' इति कोलाहल श्रुत्वाऽनेकगृहेषु च
पृष्ठम्:हितोपदेशः.djvu/१०८
एतत् पृष्ठम् अपरिष्कृतम् अस्ति