पृष्ठम्:हितोपदेशः.djvu/११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मित्रलाभः। विष्णुशर्मोवाच-शृणुत । सप्रति मित्रलाभ' प्रस्तूयते यस्यायमाद्यश्लोक - असाधना वित्तहीना बुद्धिमन्तः सुहृत्तमाः ।। साधयन्त्या कार्याणि काकूर्ममृगाखुवत् ॥ १ ॥ राजपुत्रा ऊचु -‘कथमेतत् १' विष्णुशर्मा कथयति-

  • अस्ति गोदावरीतीरे विशाल शाल्मलीतरु । तत्र नानादिग्देशादागत्य रात्रौ

पक्षिणो निवसन्ति । अथ कदाचिदवसनाया रात्रीवस्ताचलचूडावलम्बिनि भग- वति कुमुदिनीनायके चन्द्रमसि लघुपतनकनामा वायसः प्रबुद्धः कृता- न्तमिव द्वितीयमायान्त पाशहस्त व्याधमपश्यतु । तमवलोक्याचिन्तयत् * अद्य प्रातरेवानिष्टदर्शन जातम् , न जाने किमनभिमत दर्शयिष्यति' इत्युक्त्वा तद-- नुसरणक्रमेण व्याकुलश्चलित । यत - शोकस्थानसहस्राणि भयस्थानशतानि च ।। दिवसेदिवसे मूढमाविशन्ति न पण्डितम् ॥ २ ॥ अन्यच्च, विषयिणामिदमवश्य कर्तव्यम्- उत्थायोत्थाय बोद्धव्यं महद्भयमुपस्थितम् । मरणव्याधिशोकानां किमद्य निपतिष्यति ॥ ३ ॥ अथ तेन व्यावेन तण्डुलकणान्विकीर्य जाल विस्तीर्णम् । स च प्रच्छन्नो भूत्वा स्थित । तस्मिन्नेव काले चित्रग्रीवनामा कपोतराज' सपरिवारो वियति विसर्पस्तास्तण्डुलकणानवलोकयामास । तत कपोतराजस्तण्डुलकणलुब्धान्कप- सान्प्रत्याह ‘कुतोऽत्र निर्जने वने तण्डुलकणाना सभव १ तनिरूयता तावत् , भद्रमिद न पश्यामि, प्रायेणानेन तण्डुलकणलोभेनास्माभिरपि तथा भवितव्यम्- कङ्कणस्य तु लोभेन मग्नः पड्डे सुदुस्तरे। वृद्धव्याघ्रण संप्राप्तः पथिकः स मृतो यथा ॥ ४ ॥ कपोता ऊचु’- ‘कथमेतत् १ ' कपोतराजः कथयति ।