पृष्ठम्:हितोपदेशः.djvu/१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
(१२)
[ हितोपदेशे-
 


कथा १,

 अहमेकदा दक्षिणारण्ये चरनपश्यम् । एको वृद्धव्याघ्रः स्नात कुश- हस्त. सरस्तीरे बूते-* भोभो पान्थाः । इद सुवर्णकङ्कण गृह्यताम् । ततो लोभाकृष्टेन केनचित्पान्थेनालोचितम्- भाग्येनैतत्सभवति । कि त्वस्मिनात्म- सन्देहे प्रवृत्तिन विवेया । यत -

अनिष्टादिष्टलाभेऽपि न गतिर्जायते शुभा।
यत्रास्ते विषसंसर्गोऽमृतं तदपि मृत्यवे ॥५॥

 कितु सर्वत्रार्थार्जने प्रवृत्ति सदेह एव । तथा चोक्तम् ।

न संशयमनारुह्य नरो भद्राणि पश्यति ।
संशयं पुनरारुह्य यदि जीवति पश्यात ॥ ६ ॥

 तनिरूपयामि तावत् । प्रकाश ब्रूते-* कुत्र तव कङ्कणम् १ ' व्याघ्रो हस्त प्रसार्य दर्शयति । पान्थोऽवदलु-कथ मारात्मके त्वयि विश्वास १' व्याघ्र उवाच- “ऋणु रे पान्थ ! प्रागेव यौवनदशायामतिदुर्वृत्त आसम् , तत अनेकगोब्राह्मण- मानुषाणा वधान्मे पुत्रा मृता दाराश्च वहीनश्चाहम् । तत. केनचिद्धार्मिकेणा- मादिष्ट.--* दानवर्मादिक चतु भवान् ।' तदुपदेशादिदानीमह स्नान- शीलो दाता वृद्धो गलितनखदन्तो न कथ विश्वासभूमि १ उक्त च-

इज्याध्ययनदानानि तपः सत्यं धृतिः क्षमा ।
अलोभ इति मार्गोऽयं धर्मस्याष्टविधः स्मृतः ॥ ७ ॥
तत्र पूर्वश्चतुर्वग दम्भार्थमपि सेव्यते ।
उत्तरस्तु चतुर्वग महात्मन्येव तिष्ठति ॥ ८ ॥

 मम चैतावॉलोभविरहो येन स्वहस्तस्थमपि सुवर्णककण यस्मै कस्मैचिद्दातु- मिच्छामि । तथापि व्याघ्रो मानुष खादतीति लोकप्रवादो दुर्निवार । यत --

गतानुगतिको लोकः कुट्टिनीमुपदेशिनीम् ।
प्रमाणयात नो धर्मे यथा गोन्नमपि द्विजम् ॥ ९ ॥

 मया च धर्मशास्त्राण्यधीतानि । शृणु-

मरुस्थल्या यथा वृष्टिः क्षुधातें भोजनं तथा ।
दरिद्रे दीयते दानं सफलं पाण्डुनन्दन ॥ १० ॥