प्राणा यथात्मनोऽभीष्टा भूतानामपि ते तथा।।
आत्मौपम्येन भूतेषु दयां कुर्वन्ति साधवः ॥ ११ ॥
अपर च-
प्रत्याख्याने च दाने च सुखदुःखे प्रियाप्रिये ।
आत्मौपम्येन पुरुषः प्रमाणमधिगच्छति ॥ १२ ॥
अन्यच्च-
मातृवत्परदारेषु परद्रव्येषु लोष्टवत् ।
आत्मवत्सर्वभूतेषु यः पश्यति स पण्डितः ॥ १३ ॥
त्व चातीव दुर्गत , तेन तत्तुभ्य दातु सयत्नोऽहम् । तथा चोक्तम्-
दरिद्वान्भर कौन्तेय मी प्रयच्छेश्वरे धनम् ।।
व्याधितस्यौषधं पथ्यं नीरुजस्य किमौषधैः ॥ १४ ॥
अन्यच्च-
दातव्यामिति यदानं दीयतेऽनुपकारिणे ।।
देशे काले च पात्रे च तदान सात्विकं विदुः ॥ १५ ॥
तदत्र सरसि स्नात्वा सुवर्णकङ्कणं गृहाण ।' ततो यावदसौ जातविश्वासः सर स्नातुं प्रविशति तावदेव महापङ्के निमग्न' पलायितुमक्षम । पङ्के पतित दृष्ट्वा व्याघ्रोऽवदत् -अहह ! महापङ्के पतितोऽसि । अतस्त्वामहमुत्थापयामि'इत्युक्त्वा शनै शनैरुपगम्य तेन व्याघेण त । स पान्थोऽचिन्तयत्-
न धर्मशास्त्र पठतीत कारणे
न चापि वेदाध्ययनं दुरात्मनः ।
स्वभाव एवात्र तथातिरिच्यते
| यथा प्रकृत्या मधुरं गवां पयः ॥ १६॥
कि च-
अवशेन्द्रियचित्तानी हस्तिस्रानमिव क्रियाः ।
दुर्भगाभरणप्रायो ज्ञानं भारः क्रिया विना ॥ १७ ॥
तन्मया भद्र न कृतम् यदत्र मारात्मक विश्वासः कृतः । तथाढुक्तम्-