पृष्ठम्:हितोपदेशः.djvu/१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
(१४)
[ हितोपदेशे-
 


नदीनां शस्त्रपाणीनां नाखिना शृङ्गण तथा ।
विश्वासो नैव कर्तव्यः स्त्रीषु राजकुलेषु च ॥ २८ ॥

अपर च-

सर्वस्य हि परीक्ष्यन्ते स्वभावा नेतरे गुणाः ।
अतीत्य हि गुणान्सर्वान्स्वभावो मूर्ध्नि वर्तते ॥ १९ ॥

अन्यच्च-

स हि गगनविहारी कल्मषध्वंसकारी
दशशतकरधारी ज्योतिषां मध्यचारी।
विधुपि विधियोगाद्धस्यते राहुणास
लिखितमपि ललाटे प्रोज्झितुं कः समर्थः ॥ २० ॥

इति चिन्तयन्नेवासौ तेन व्याघ्रण व्यापादित खादितश्च । अतोऽह ब्रवीमि-कङ्कणस्य तु लोभेन इत्यादि । अत सर्वथाऽविचा- रित कर्म न कर्तव्यम् । यत -

सुजीर्णमन्नं सुविचक्षणः सुतः
सुशासिता स्त्री नृपतिः सुसेवितः।
सुचिन्त्य चोक्तं सुविचार्य यत्कृतं
सुदीर्घकालेऽपि न याति विक्रियाम् ॥ २१॥

एतद्वचन श्रुत्वा कश्चित्कपोत सदर्पमाह- आ । किमेवमुच्यते ?

वृद्धानां वचनं ग्राह्यमापत्काले झुपस्थिते ।
सर्वत्रैवं विचारेण भोजनेऽप्यप्रवर्तनम् ॥ २२ ॥

यत -

शङ्काभिः सर्वमाक्रान्तमन्नं पानं च भूतले ।
प्रवृत्तिः कुत्र कर्तव्या जीवितव्यं कथं नु वा ॥ २३ ॥

तथा चोक्तम्

ईष्र्थी वृणी त्वसन्तुष्टः क्रोधनो नित्यशङ्कितः।
परभाग्योपजीवी च षडेते दुःखभागिनः ॥ २४ ॥