पृष्ठम्:हितोपदेशः.djvu/१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मित्रलाभः. ] ( १५ ) एतच्छुत्वा सर्वे कपोतास्तत्रोपविष्टा. । यत - सुमहान्त्यपि शास्त्राणि धारयन्तो बहुश्रुताः । छेत्तारः संशयानां च क्लिश्यन्ते लोभमोहिताः ॥२५॥ अन्यच्च- लोभात्क्रोधः प्रभवाति लोभात्कामः प्रजायते ।। लोभान्मोहश्च नाशश्च लोभः पापस्य कारणम् ॥ २६॥ अन्यच्च- असंभवं हेममृगस्य जन्म तथापि रामो लुलुभे मृगाय । प्रायः समापन्नावपत्तिकाले धियोऽपि पुंसां मलिना भवन्ति ॥ २७॥ अनन्तर ते सर्वे जालेन बद्धा बभूव । ततो यस्य वचनात्तत्रावलम्बिता पक्षिणस्त सर्वे तिरस्कुवन्ति । तथा चोक्तम्- न गणस्याअतो गच्छेत्सिद्धे कायें समं फलम् । यदि कार्यविपत्तिः स्यान्मुखरस्तत्र हन्यते ॥ २८ ॥ तथा चोक्तम्- आपदा कथितः पन्था इन्द्रियाणामसंयमः। तज्जयः सम्पदा माग येनेष्टं तेन गम्यताम् ॥ २९॥ तस्य तिरस्कार श्रत्वा चित्रग्रीव उवाच-“नायमस्य दोष । यत:- आपदामापतन्तीनां हितोऽप्यायाति हेतुताम् । मातृजङ्घा हि वत्सस्य स्तम्भीभवति बन्धने ॥ ३० ॥ अन्यच्च- स बन्धुर्यों विपन्नानामापदुद्धरणक्षमः । न तु भीतपरित्राणवस्तूपालम्भपण्डितः ॥ ३१ ॥ विपत्काले विस्मय एव कापुरुषलक्षणम् । तदत्र धैर्यमवलम्ब्य प्रतीकारश्चि- न्त्यताम् । यतः-