पृष्ठम्:हितोपदेशः.djvu/१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
(१६)
[ हितोपदेशे-
 


विपदि धैर्यमथाभ्युदये क्षमा
सदसि वाक्पटुता युध विक्रमः ।
यशसि चाभिरुचिर्व्यसनं श्रुत
प्रकृतिसद्धमिदं हि महात्मनाम् ॥ ३२ ॥

संपदि यस्य न हर्षों विपाद विषादो रणे न भीरुत्वम् ।।
तं भुवनत्रयतिलकं जनयति जननी सुतं विरलम् ॥३३॥

अन्यच्च--

षड् दोषाः पुरुषेणेह हातव्या भूतिमिच्छता ।
निद्रा तन्द्रा भयं क्रोध आलस्यं दीर्घसूत्रता ।। ३४ ॥

इदानीमण्येव क्रियताम्, सर्वैरेकचित्तीभूय जाल्मादायोड्डीयताम् । यतः-----

अल्पानामपि वस्तूनां संहतिः कार्यसाधिका ।।
तृणैर्गुणत्वमापन्नैर्बध्यन्ते मतदन्तिनः ॥ ३५ ॥
संहातः श्रेयसी पुंसां स्वकुलैरल्पकैरपि ।
तुषेणापि परित्यक्तान प्ररोहन्ति तण्डुलाः ॥ ३६ ॥

 इति विचिन्त्य पक्षिण सर्वे जालमादायोत्पतिताः । अनन्तर स व्याधः सुदूराज्जालापहारकास्तानवलोक्य पश्चाद्धावन्नचिन्तयत्-- ।

संहतास्तु हरन्त्येते मम जालं विहङ्गमाः ।
यदा तु निपतिष्यन्ति वशमेष्यन्ति मे तदा ॥ ३७॥

ततस्तेषु चक्षुर्विषयातिक्रान्तेषु पक्षिषु स व्यावो निवृत्त ।

 अथ लुब्धक निवृत्त दृष्ट्वा कपोता ऊचु - स्वमिन् ! किमिदानीं कर्तुमुचि- तम् १ ' चित्रग्रीव उवाच-

" माता मित्रं पिता चेति स्वभावात्रितयं हितम् ।
कार्यकारणतश्चान्ये भवन्ति हितबुद्धयः ॥ ३८ ॥

तदस्माक मित्रं हिरण्यको नाम मूषिकराजो गण्डकीतीरे चित्रवने निवसति । दन्तबलेन सोऽस्माक पाशाश्छेत्स्यति " इति आलोच्य सर्वे हिरण्यकविवरसमीपं गताः । हिरण्यकश्च सर्वदापायशङ्कया शतद्वारे विवढे कृत्वा निवसति-