पृष्ठम्:हितोपदेशः.djvu/१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
(१८)
[ हितोपदेशे-
 


अन्यच्च-

धर्मार्थकाममोक्षाण प्राणाः संस्थितिहेतवः ।
तान्निघ्नता किं न हतं रक्षता किं न राक्षतम् ॥ ४४ ॥

 चित्रग्रीव उवाच- सखे । नीतिस्तावदीदृश्येव, कि त्वमस्मदाश्रिताना दुःख सोलु सर्वथाऽसमर्थः । तेनेद ब्रवीमि । यत -

धनानि जीवितं चैव परार्थे प्राज्ञ उत्सृजेत् ।
सन्निमित्ते वरं त्यागो विनाशे नियते सति ॥ ४५ ॥

अयमपरश्वासावारण हेतु :-

जातिद्रव्यगुणानां च साम्यमेषां मया सह ।
मत्प्रभुत्वफलं ब्रूहि कदा किं तद्भविष्यात ॥ ४६॥

अन्यच्च-

विना वर्तनमेवैते न त्यजन्ति ममान्तिकम् ।
तन्मे प्राणव्ययेनापि जीवयैतान्ममाश्रितान् ॥ ४७ ॥

किच-

माँसमूत्रपुरीषास्थिनिर्मितेऽस्मिन्कलेवरे ।
विनश्वरे विहायस्थ यशः पालय मित्र मे ॥४८॥

अपर च पश्य-

यदि नित्यमनित्येन निर्मलं मलवाहिना ।
यशः कायेन लभ्येत तन्न लब्धं भवेन्नु किम् ॥ ४९ ॥

यत -

शरीरस्य गुणानां च दूरमत्यन्तमन्तरम् ।
शरीरं क्षणविध्वसि कल्पान्तस्थायिनो गुणाः ॥५०॥'

 इत्याकर्ण्य हिरण्यक प्रहृष्टमना. पुलकित सन्नब्रवीत्-* साधु मित्र ! साधु । अनेनाश्रितवात्सल्येन त्रैलोक्यस्यापि प्रभुत्व त्वयि युज्यते । एवमुक्त्वा तेन सर्वेषा बन्धानि छिन्नान । ततो हिरण्यक’ सर्वान्सादर सम्पूज्याह-* सखे चित्र- ग्रीव ! सर्वथात्र जालबन्धनविधौ दोषमाशङ्कयात्मन्यवज्ञा न कर्तव्या । यतः-

योऽधिकाद्योजनशतात्पश्यतीहामिषं खगः ।
स एव प्राप्तकालस्तु पाशबन्धं न पश्यति ॥ ५१ ॥