पृष्ठम्:हितोपदेशः.djvu/२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
(२०)
[ हितोपदेशे-
 


शृगालेनावलोकित । त दृष्ट्वा शृगालोऽचिन्तयत् “ आ । कथमेतन्मास सुललित भक्षयामि । भवतु । विश्वास तावदुत्पादयामि' इत्यालोच्योपसृ- त्याब्रवीत- ‘मित्र ! कुशल ते १' मृगेणोक्तम्- ‘कस्त्वम् १" स ब्रूते-‘क्षुद्रबुद्धे- नामा जम्बुकोऽहम्, अत्रारण्ये बन्धुहीनो मृतवन्निवसामि । इदानीं त्वा मित्रमासाद्य पुन सबन्धुर्जीवलोक प्रविष्टोऽस्मि । अधुना तवानुचरेण मया सर्वथा भवितव्यम् ।' मृगेणोक्तम्-' एवमस्तु ।' तत पश्चादस्त गते सवितरि भगवति मरीचिमालिनि तौ मृगस्य वासभूमि गतौ । तत्र चम्पकवृक्षशाखाया सुबुद्धिनामा काको मृगस्य चिरमित्रं निवसति । तौ दृष्ट्वा काकोऽवदत् ' सखे चित्राङ्ग । कोऽय द्वितीय १' मृगो ब्रूते-‘जम्बुकोऽयम् अस्मत्सख्यमिन्छनागत ।' काको ब्रूते ‘मित्र ! अकस्मादागन्तुना सह मैत्री न युक्ता । तथा चोक्तम्-

अज्ञातकुलशीलस्य वासो देयो न कस्यचित् ।
मार्जारस्य हि दोषेण हतो गुथ्रो जरङ्गवः ॥ ५७ ।।

 तावाहतु -- कथमेतत् १ ' काक कथयति-

कथा ३,

 अस्ति भागीरथीतीरे गृभ्रकूटनाम्नि पर्वते महान्पर्कटीवृक्ष । तम् कोठरे दैवदुर्विपाकाद्वलितनखनयनो जरद्वनामा गृधः प्रतिवसति । अथ कृपया तज्जीवनाय तक्षवासिन पक्षिण स्वाहारात्किचित्किचिदुदृत्य ददति । तेनासौ जीवति । शावकरक्षा च करोति । अथ कदाचिदीर्धकर्णनामा माजर पक्षिशावकान्भक्षितु तत्रागत । ततस्तमायान्त दृष्ट्वा पक्षिशावकैर्भयार्ते कोला- इल कृत । तन्छुत्वा जरद्वेनोक्तम्-‘कोऽयमायाति १' दीर्घकर्णो गृध्रमवलोक्य समयमाह- हा । हतोऽस्मि । यत -

तावद्भयस्य भेतव्यं यावद्भयमनागतम् ।
आगतं तु भयं वीक्ष्य नरः कुर्याद्यथोचितम् ॥ ५८ ॥

 अधुनास्य सनिधाने पलायितुमक्षम । तद्यथा भवितव्य तद्भवतु । तावद्विश्वा- समुत्पाद्यास्य समीपमुपगच्छामि । ' इत्यालोच्योपसृ याब्रवीत्- ‘आर्य । त्वामभि- वन्दे ।' गृध्रोऽवदत्-‘कस्त्वम् १ ' सोऽवदत्-‘मार्जारोऽहम् ' । गृध्रो ब्रूते दूर-