पृष्ठम्:हितोपदेशः.djvu/२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
(२४)
[ हितोपदेशे-
 


 जम्बुको मुडमुड पाश विलोक्याचिन्तयत्-‘दृढबन्धनबद्धोऽस्ति तावदय मृग' ब्रूते च-सखे ! स्नायुनिर्मिता एते पाशा , तदद्य भट्टारकवारे कथमेतान्दन्तैः स्पृशामि १ मित्र ! यदि चित्ते नान्यथा मन्यसे तदा प्रभाते यत्वया वक्तव्य तत्कर्त व्यम् । इत्युक्त्वा तत्समीप आत्मानमाच्छाद्य स्थित. स । अनन्तर स काक प्रदोषकाले मृगमनागतमवलोक्येतस्ततोऽन्विष्यन् तथाविध दृष्ट्ोवाच- * सखे । किमेतत् १' मृगेणोक्तम्-‘अवधीरितसुहृद्वाक्यस्य फलमेतत् । तथा चोक्तम्-

सुरूदो हितकामानां यः शृणोति न भाषितम् ।।
विपत्संनिहिता तस्य स नरः शत्रुनन्दनः ॥ ७६ ॥

काको ब्रूते-* स वञ्चक कास्ते १ ' मृगेणोक्तम्- मन्मासाथ तिष्ठत्यत्रैव' । काको ब्रूते-‘उक्तमेव मया पूर्वम्-

अपराधो न मेऽस्तीति नैतद्विश्वासकारणम् ।
विद्यते हि नृशंसेभ्यो भयं गुणवतामपि ॥ ७७ ॥
परोक्षे कार्यहन्तारं प्रत्यक्ष प्रियवादिनम् ।
वर्जयेत्तादृशं मित्रं विषकुम्भं पयोमुखम् ॥ ७८ ॥

ततः काको दीर्घ नि श्वस्य ‘अरे वञ्चक । कि त्वया पापकर्मणा कृतम् । यतः-

संलापतानां मधुरैवचोभि-
| मिथ्योपचारैश्च वशीकृतानाम् ।
आशावतां श्रद्दधतां च लोके
किमर्थिनां वञ्चयितव्यमस्ति ॥ ७९ ॥

उपकारिणि विश्रब्धे शुद्धमतौ यः समाचरात पापम् ।
तं जनमसत्यसन्धं भगवात वसुधे कथं वहसि ॥ ८०॥

दुर्जनेन समं वैरं प्रीतिं चापि न कारयेत् ।
उष्णो दहति चाङ्गारः शीतः कृष्णायते करम् ॥ ८१॥

अथवा स्थितिारयं दुर्जनानाम्--

प्राक्पादयोः पतति खादति पृष्ठमांस
कर्णे कलं किमपि रौति शनैर्वैचित्रम् ।