पृष्ठम्:हितोपदेशः.djvu/३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
(३०)
[ हितोपदेशे-
 


अतुष्टिदानं कृतपूर्वनाशनम्
| अमानने दुश्चरितानुकीर्तनम् ।
कथाप्रसङ्गेन च नामविस्मृत-
विरक्तभावस्य जनस्य लक्षणम् ॥ ११४ ॥

 चूडाकर्णेनोक्तम्-‘मित्र ! नाह विरक्त । कि तु पश्याय मूषिको ममापकारी सदा पात्रस्थ भिक्षानमुत्प्लुत्य भक्षयति ।' वीणाकणे नागदन्तक विलोक्याह- ‘कथं मूषिक, स्वल्पबलोऽप्येतावद्दुरमुत्पतति १ तदत्र केनापि कारणेन भवित- व्यम् । तथा चोक्तम्-

अकस्माद्युवती वृद्धं केशेष्वाकृष्य चुम्बति ।।
पतिं निर्दयमालिङ्गय हेतुरत्र भविष्यति ॥ ११५ ॥

चूडाकर्ण पृच्छति-‘कथमेतत् ' १ वीणाकर्ण' कथयति-

{{bold|कथा ५,

 अस्ति गौडीये कौशाम्बी नाम नगरी । तस्या चन्दनदासनामा वाण महाधनो निवसति । तेन पश्चिमे वयसि वर्तमानेन कामाधिष्ठितचेतसा धनदर्मात् लीलावतीनाम्नी वणिक्पुत्री परिणीता। सा च मकरकेतोर्विजयवैजयन्तीव यौवनवती बभूव । स च वृद्धपतिस्तस्या सतोषाय नाभवत् । यत -

शशिनीव हिमार्तानां घर्मार्तानां रवाविव ।
मनो न रमते स्त्रीणां जजीर्णेन्द्रिये पतौ ॥ ११६ ॥

अन्यच्च-

पलितेषु हि दृष्टेषु पुंसः का नाम कामिता ।
भैषज्यमिव मन्यन्ते यदन्यमनसः स्त्रियः ॥ ११७॥

स च वृद्धपतिस्तस्यामतीवानुरागवान् । यतः--

धनाशा जीविताशा च गुर्वी प्राणभृतां सदा ।
वृद्धस्य तरुणी भार्या प्राणेभ्योऽपि गरीयसी ॥ ११८ ॥