पृष्ठम्:हितोपदेशः.djvu/३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
मित्रलाभः. ]
३१
 


नोपभोक्तं न च त्यक्तुं शक्नोति विषयाक्षरी।
अस्थि निर्दशनः श्वेव जिह्वया लेढि केवलम् ॥११९॥

 अथ सा लीलावती यौवनदपदतिक्रान्तकुलमर्यादा केनापि वणिक्पुत्रेण सहानुरागवती बभूव । यत -

स्वातन्त्र्यं पितृमन्दिरे निवसतिर्यात्रोत्सवे सङ्गति-
गौष्ठीपूरुषसंनिधावनियमो वासो विदेशे तथा ।
संसर्गः सह पुंश्चलीभिरसकृवृत्तेर्निजायाः क्षतिः
पत्युर्वार्धकमर्षितं प्रवसनं नाशस्य हेतुः स्त्रियाः ॥ १२०॥

अपर च--

पानं दुर्जनसंसर्गः पत्या च विरहोऽटनम् ।
स्वप्तश्चान्यगृहे वासो नारीणां दूषणानि षट् ॥ १२१ ।।

किच--

स्थानं नास्ति क्षणो नास्ति नास्ति प्रार्थयिता नरः ॥
| तेन नारद नारीणां सतीत्वमुपजायते ॥ १२२ ॥

अन्यचे--

न स्त्रीणामप्रियः कश्चित्प्रियो वापि न विद्यते ।
गावस्तुणमिवारण्ये प्रार्थयन्ति नवनवम् ॥ १२३ ॥

अपर च---

स्त्रियो हि चपला नित्यं देवानामपि विश्रुतम् ।।
ताश्चापि रक्षिता येषां ते नराः सुखभागिनः॥ १२४ ॥
घृतकुम्भसमा नारी तप्ताङ्गारसमः पुमान् ।
तस्माद्धृतं च वहिं च नैकत्र स्थापयेद्बुधः ॥ १२५ ॥
न लज्जा न विनीतत्वं न दाक्षिण्यं न भीरुता ।
प्रार्थनाभाव एवैकं सतीत्वे कारणं स्त्रियाः ॥ १२६॥