अपर च-
यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः ।
| यस्यार्थाः स पुमाँल्लोके यस्याथः स हि पण्डितः॥१३३॥
अन्यच्च-
अपुत्रस्य गृहं शून्य सन्मित्ररहितस्य च ।
मूर्खस्य च दिशः शून्याः सर्वशून्या दरिद्रता ॥१३४॥
अपर च-
दारिद्यान्मरणाद्वापि दारिद्यमवरं स्मृतम् ।
अल्पक्लेशेन मरणं दारिद्यमातिदुस्सहम् ॥ १३५ ॥
तानीन्द्रियाण्यविकलानि तदेव नाम
सा बुद्धिरप्रतिहता वद ( च )नं तदेव ।
अर्थोष्मणा विराहतः पुरुषः स एव
ह्यन्यः क्षणेन भवतीति विचित्रमेतत् ॥ १३६ ॥
एतत्सर्वमाकर्ण्य मयालोचितम्-- ममात्रावस्थानमयुक्तमिदानीम्, यच्चान्यस्मा- एतद्वृत्तान्तकथनम्, तदप्यनुचितम्-
अर्थनाशं मनस्तापं गृहे दुश्चरितानि च ।
वञ्चनं चापमानं च मतिमान्न प्रकाशयेत् ॥ १३७॥
अपि च-
आयुर्वित्तं गृहाच्छद्रं मन्त्रमैथुनभेषजम् ।
तपोदानापमानं च नव गोप्यानि यत्नतः ॥ १३८॥
तथा चोक्तम्-
अत्यन्तवमुखे दैवे व्यर्थे यत्ने च पौरुषे ।।
मनस्विनो दरिद्रस्य वनादन्यत्कुतः सुखम् ॥ १३९ ॥
अन्यच्च-
मनस्वी म्रियते कामं कार्पण्यं न तु गच्छति ।
आप निर्वाणमाथाात नानलो याति शीतताम् ॥१४०॥