किच-
कुसुमस्तबकस्यैव द्वे च्वृत्ती तु मनस्विनः ।
सर्वेषां मूर्ध्नि वा तिष्ठेद्विशीर्यंत वनेऽथवा ॥ १४१॥
|
यात्रैव याच्या जीवन तदतीव गार्हतम् । यत'-
वरं विभवहीनेन प्राणैः सन्तर्पितोऽनलः ।
नोपचारपरिभ्रष्टः कृपणः प्रार्थितो जनः ॥ १४२ ॥
|
अन्यच्च-
दारियादूधियमेति ह्रीपरिगतः सत्त्वात्परिभ्रश्यते
निस्सत्वः परिभूयते परिभवान्निर्वेदमापद्यते ।।
निर्विण्णः शुचमेति शोकनिहतो बुद्धया परित्यज्यते
निर्बुद्धिः क्षयमेन्यहो निधनता सर्वापदामास्पदम् ॥ १४३॥
|
किच-
वरं मौनं कार्यं न च वचनमुक्तं यदनृतं
| वरं कैब्यं पुंसां न च परकलत्राभिगमनम् ।
वरं प्राणत्यागो न च पिशुनवाक्येष्वभिरुचि-
धेरै भिक्षाशत्वं न च परधनास्वादनसुखम्॥१४४॥
वरं शून्या शाला न च खलु वरो दुष्टवृषभो
वरं वेश्या पत्नी न पुनरविनीता कुलवधूः ।
वरं वासोऽरण्ये न पुनरविवेकाधिपपुरे
| वरं प्राणत्यागो न पुनरधमानामुपगमः ॥ १४५ ॥
|
अपि च-
सेवेव मानमखिलं ज्योत्स्नव तमो जरेव लावण्यम् ।
हरिहरकथेव दुरितं गुणशतमप्यर्थिता हरति ॥ १४६ ॥
|
इति विमृश्य • तत्किमह परपिण्डेनात्मान पोषयामि १ कष्ट भो । तदपि
द्वितीय मृत्युद्वारम् । यत.-
पल्लवग्राहि पाण्डित्यं क्रयक्रीतं च मैथुनम् ।
भोजनं च पराधीनं तिस्रः पुंसां विडम्बनाः ॥ १४७ ॥
|