मित्रलाभः. ] (३५) रोगी चिरप्रवासी परान्नभोजी परावसथशायी। यजीवति तन्मरणं यन्मरणं सोऽस्य विश्रामः ॥१४८॥ इत्यालोच्यापि लोभात् पुनरपि तदीयान्न ग्रहीतु ग्रहमकरवम् । तथा चोक्तम्- लोभेन बुद्धिश्चलति लोभो जनयते तृषाम् ।। तृषात दुःखमाप्नोति परवेह च मानवः ॥ १४९ ॥ ततोऽहं मन्दमन्दमुपसर्पस्तेन वीणाकर्णेन जर्जरवशखण्डेन ताडितश्चा- चिन्तयम्- धनलुब्धो ह्यसंतुष्टोऽनियतात्माऽजितेन्द्रियः। सर्वा एवापदस्तस्य यस्य तुष्ट न मानसम् ॥ १५० ॥ तथा च- सर्वाः संपत्तयस्तस्य सन्तुष्टं यस्य मानसम् । उपानगूढपादस्य ननु चर्मावृतेव भूः ॥ १५१ ॥ अपर च- सन्तोषामृततृप्तानां यत्सुखं शान्तचेतसाम् । कुतस्तद्धनलुब्धानामितश्चेतश्च धावताम् ॥ १५२ ॥ किञ्च- तेनाधीतं श्रुतं तेन तेन सर्वमनुष्ठितम् । येनाशाः पृष्ठतः कृत्वा नैराश्यमवलम्बितम् ॥ १५३॥ अपि च- असेवितेश्वरद्वारमदृष्टविरहव्यथम् । अनुक्तक्लीबवचनं धन्यै कस्यापि जीवनम् ॥ १५४ ॥ यत - न योजनशतं दूर बाध्यमानस्य तृष्णया । संतुष्टस्य करप्राप्तेऽप्यर्थे भवति नादरः॥ १५५ ॥ तदत्रावस्थोचितकार्यपरिच्छेदः श्रेयान् । उक्त च-
पृष्ठम्:हितोपदेशः.djvu/३५
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
![](http://upload.wikimedia.org/wikipedia/commons/thumb/2/27/%E0%A4%B9%E0%A4%BF%E0%A4%A4%E0%A5%8B%E0%A4%AA%E0%A4%A6%E0%A5%87%E0%A4%B6%E0%A4%83.djvu/page35-1024px-%E0%A4%B9%E0%A4%BF%E0%A4%A4%E0%A5%8B%E0%A4%AA%E0%A4%A6%E0%A5%87%E0%A4%B6%E0%A4%83.djvu.jpg)