दानं प्रियवाक्सहितं ज्ञानमगर्व क्षमान्वितं शौर्यम् । |
उक्त च--
कर्तव्यः सञ्चयो नित्यं कर्तव्यो नातिसञ्चयः । |
तावाहतुः-‘कथमेतत् १' । मन्थरः कथयति-
कथा ६.
आसीत्कल्याणकटकवास्तव्यो भैरव नाम व्याधः । स चैकदा मास- लुब्धो धनुरादाय मृगमन्विष्यमाणो विन्ध्याटवीं गतवान् । ततस्तेन व्यापादित- मृगमादाय गच्छता घोराकृति' सूकरो दृष्ट । ततस्तेन व्यावेन मृग भूमौ निधाय सूकर शरेण हत । सूकरेणापि घनघोरगर्जन कृत्वा स व्यावो मुष्कदेशे हतः सछिन्नद्रुम इव भूमौ निपपात । यत'--
जलमग्निर्विषं शत्रं क्षुद्याधिः पतनं गिरेः । |
अथ तयो पादास्फालनेन सपऽपि मृतः । अथानन्तर दीर्घरावो नाम जम्बुक परिभ्रमन्नाहारार्थी तान्मृतान्मृगव्याधसर्पसूकरानपश्यत् । अचितयच्च ‘अहो भाग्य- मद्य महङ्गोप्य में समुपस्थितम् । अथ वा-
अचिन्तितानि दुःखानि यथैवायान्ति देहिनाम् । |
तद्भवतु, तेषा मासैमसत्रय मे सुखेन गमिष्यति-
मासमेकं नरो याति द्वौ मासौ मृगसुकरौ । |
ततः प्रथमबुभुक्षायामिद नि.स्वादु कोदण्डाटनीलग्नं स्नायुबन्धन खादामि, इत्युक्त्वा तथा कृते सति न्छिने स्नायुबन्धने द्रुतमुत्पतितेन धनुषा हृदि निर्भन्नः स दीर्घराव' पञ्चत्व गत । अतोऽह ब्रवीमि- कर्तव्यः संचयो नित्यम्' इत्यादि । तथा च-