पृष्ठम्:हितोपदेशः.djvu/४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
मित्रलाभः. ]
४१
 


तथा हि-

जन्मान केशबहुले किं नु दुःखमतः परम् ।।
इच्छा सम्पद्यतो नास्ति यच्चेच्छा न निवर्तते ॥ १९४॥

अन्यच्च भ्रात । शृणु-

धनं तावन्न सुलभं लब्धं कृच्छ्रेण रक्ष्यते ।
लब्धनाशो यथा मृत्युस्तस्मादेतन्न चिन्तयेत् ॥१९५॥
तृष्णां चेह परित्यज्य को दरिद्रः क ईश्वरः ।
तस्याश्चेत्प्रसरो दत्तो दास्यं च शिरास स्थितम्॥१९६॥

अपर च-

यद्यदेव हि वाञ्छत ततो वाञ्छा प्रवर्तते ।
प्राप्त एवार्थतः सोऽर्थों यतो वाञ्छा निवर्तते ॥१९७ ॥

किबहुना मम पक्षपातेन १ मयैव सहात्र कालो नीयताम् । यत -

आमरणान्ताः प्रणयाः कोपास्तत्क्षणभङ्गुराः।
परित्यागाश्च निःसङ्गा भवन्ति हि महात्मनाम्॥१९८॥

 इति श्रुत्वा लघुपतनको ब्रूते-* धन्योऽसि मन्थर ! सर्वथा श्रयणीयोऽसि । यत ---

सन्त एव सतां नित्यमापदुद्धरणक्षमाः।
गजानां पङ्कमग्नान गजा एव धुरन्धराः ॥ १९९॥
गुणनि गुणज्ञो रमते नागुणशीलस्य गुणिनि परितोषः ।
आलरेति वनात्कमलं न हि भेकस्त्वेकवासोपि॥ ॥२००॥

अपर च--

श्लाघ्यः स एको भुवि मानवानां
स उत्तमः सत्पुरुषः स धन्यः ।
यस्यार्थिनो वा शरणागता वा
नाशाभिभङ्गाद्विमुखाः प्रयान्ति ॥ २०१॥

तदेव ते स्वेच्छाहारविहार कुर्वाणा सन्तुष्टाः सुख निवसन्ति ।