अथ कदाचिञ्चित्राङ्गनामा मृगः केनापि त्रासितस्तत्रागत्य मिलितः ततः
पश्चादायान्त भयहेतु सचिन्त्य मन्थरो जल प्रविष्ट । मूषिकश्च विवर गत ।
काकोऽयुड्डीय वृक्षमारूढः । ततो लघुपतनकेन सुदूरं निरूग्य भयहेतुर्न कोऽग्या-
यातीत्यालोचितम् । पश्चात्तद्वचनादागत्य पुनः सर्वे मिलित्वा तत्रैवोपविष्टा. ।
मन्थरेणोक्तम् भद्र मृग ! स्वागतम्, स्वेच्छयोदकाद्याहारोऽनुभूयताम् । अत्रा-
वस्थाने वनमिद सनाथीक्रियताम् । चित्राङ्गो ब्रूते- लुब्धकत्रासितोऽह भवता
शरणमात ।
लोभाद्वापि भयाद्वापि यस्त्यजेच्छरणागतम् । |
भवद्भिः सह सख्यमिच्छामि । हिरण्यकोऽवदत्-‘मित्रत्व तावदस्माभिः सहायत्नेनैव निष्पन्न भवतः ।
औरसं कृतसम्बन्धं तथा वंशक्रमागतम् । |
तदत्र भवता स्वगृहनिर्विशेष स्थीयताम् ।' तच्छुत्वा मृगः सानन्दो भूत्वा स्वैच्छाहार कृत्वा पानीय पीत्वा जलासनवटतरुच्छायायामुपविष्ट । यत -
कूपोदकं वटच्छाया श्यामा स्त्री चेष्टकागृहम् । |
अथ मन्थरेणोक्तम्-‘सखे मृग ! एतस्मिनिर्जने वने केन त्रासितोऽसि १ कदा- चित्कि व्याधा सचरन्ति १' मृगेणोक्तम्-‘अस्ति कलिङ्गविषये रुक्माङ्गदोहे नाम नरपति । स च दिग्विजयव्यापारक्रमेणागत्य चन्द्रभागानदीतीरे समावा- सितकटको वर्तते । प्रातश्च तेनात्रागत्य कर्पूरसर समीपे भवितव्यमिति व्याधाना मुखात्किवदन्ती श्रूयते । तदत्रापि प्रातरवस्थान भयहेतुकमित्यालोच्य यथा- वसरकार्यमारभ्यताम् ।' तच्छुत्वा कर्म' समयमाह-‘मित्र ! जलाशयान्तरं गच्छामि ।' काकमागावयुक्तवन्तौ-‘एवमस्तु ।' ततो हिरण्यको विहस्याह- ‘जलाशयान्तरे प्राप्ते मन्थरस्य कुशलम् । स्थले गच्छत क’ प्रतीकारः १ यतः-