अम्भासि जलजन्तूनां दुर्ग दुर्गनिवासिनाम् ।
स्वभूमिः श्वापदादीनां राज्ञां सैन्यं परं बलम् ॥ २०५॥
सखे लघुपतनक । अनेनोपदेशेन तथा भवितव्यम्-
स्वयं वीक्ष्य यथा वध्वाः पीडितं कुचकुड्मलम् ।
वणिक्पुत्रोऽभवदुःखी त्वं तथैव भविष्यसि ॥ २०६ ॥
त ऊचुः-* कथमेतत् १' हिरण्यकः कथयति-
कथा ७,
अस्ति कान्यकुञ्जविषये वीरसेनो नाम राजा । तेन वीरपुरनाम्नि नगरे तुङ्गबलो नाम राजपुत्रो भोगपति कृत । स च महाधनस्तरुण एकदा स्वनगरे भ्राम्यन्नतिप्रौढयौवना लावण्यवतीं नाम वणिक्पुत्रवधूमालोकयामास । तत स्वहर्त्य गत्वा स्मराकुलितमतिस्तस्या कृते दूतीं प्रेषितवान् । यत.-
सन्मार्गे तावदास्ते प्रभवात पुरुषस्तावदेवेन्द्रियाणां
लज्जा तावाद्वधत्ते विनयमपि समालम्बते तावदेव ।
भ्रूचापाकृष्टमुक्ताः श्रवणपथगता नीलपक्ष्माण एते
यावल्लीलावतीनां न हृदि धृतिमुषो दृष्टिबाणाः पतन्ति॥२०७
सापि लावण्यवती तदवलोकनक्षणात्प्रभृति स्मरशरप्रहारजर्जरितहृदया तदे- कचित्ताऽभवत् । तथा ह्युक्तम्-
असत्यं साहसं माया मात्सर्यं चातिलुब्धता ।
निर्गुणत्वमशौचत्वं स्त्रीणां दोषाः स्वभावजाः ॥ २०८॥
अथ दूतीवचनं श्रुत्वा लावण्यवत्युवाच-'अह पतिव्रता परपुरुषस्पर्शमात्रमपि न करोमि । यतः--
सा भार्या या गृहे दक्षा सा भार्या या प्रजावती ।
सा भार्या या पतिप्राणा सा भार्या या पतिव्रता॥२०९
कोकिलानां स्वरो रूपं नारीरूपं पतिव्रतम् ।
विद्या रूपं कुरूपाणां क्षमा रूपं तपस्विनाम् ॥२१०॥