पृष्ठम्:हितोपदेशः.djvu/४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मित्रलाभः.] (४५) अन्यच्च- पर्जन्य इव भूतानामाधारः पृथिवीपतिः । विकलेऽपि हि पर्जन्ये जीव्यते न तु भूपत ॥ २१५ ॥ नियतविषयवर्ती प्रायशो दण्डयोगा- जगति परवशेऽस्मिन्दुर्लभः साधुवृत्तः । कृशमपि विकलं वा व्याधितं वाऽधनं वा पतिमपि कुलनारी दण्डभीत्याभ्युपैति ॥ २१६॥ तद्यथा लग्नवेला न विचलति तथा कृत्वा सत्वरमागम्यता देवेन । इत्युक्त्वो- त्थाय चलितः । ततोऽसौ राज्यलोभाकृष्ट कर्परतिलक' शृगालदर्शितवर्मना धावन्महापङ्के निमग्नः । हस्तिनोक्तम्-' सखे शृगाल ! किमधुना विधेयम् १ महा- पङ्के निपतितोऽह म्रिये, परावृत्य पश्य ।' शृगालेन विहस्योक्तम् “ देव ! मम पुच्छकाग्रावलम्बन कृत्वोत्तिष्ठ । यन्मद्विधस्य वचसि त्वया प्रत्ययः कृतस्तदनु- भूयतामशरणं दु खम् । तथा चोक्तम्- यदासत्सङ्गरहितो भविष्यसि भविष्यसि । तदासज्जनगोष्ठीषु पतिष्यसि पतिष्यसि ॥ २१७॥ ततो महापङ्के निमग्नो हस्ती शृगालैर्भक्षित । अतोऽह ब्रवीमि- उपा- येन हि यच्छक्यम्' इत्यादि ।। तत कुट्टिन्युपदेशेन त चारुदत्तनामानं वणिक्पुत्रं स राजपुत्र सेवक चकार । ततोऽसौ तन सर्वविश्वासकार्येषु नियोजितः । | एकदा कुट्टिन्युपदेशेन तेन राजपुत्रेण स्नातानुलिप्तेन कनकरत्नालङ्कारवा- रिणा प्रोक्तम् । चारुदत्त ! मया मासमेक गौरीव्रतं कर्तव्यम् । तदद्यारभ्य प्रतिरात्रमेका कुलीना युवतीमानीय समर्पय । सा मया यथोचिंतन विधिना पूजयितव्या । तत स चारुदत्तस्तथाविधा नवयुवतीमानीय समर्प- यति । पश्चात्प्रच्छन्नः सन् किमयं करोतीति निरूपयति । स च तुङ्गबलस्ता युव- तीमस्पृशन्नेव दूराद्वस्त्रालंकारगन्धचन्दनै. सम्पूज्य रक्षकं दत्वा तत्क्षणमेव प्रस्था- पयति । अथ तेन वणिक्पुत्रेण तद्दष्ट्ोपजातविश्वासैन लोभाकृष्टमनसा स्ववधू