पृष्ठम्:हितोपदेशः.djvu/४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(४८) | [ हितोपदेशे- अथ राजपुत्रै सानन्दमुक्तम्- सर्व श्रुतवन्त सुखिनो वयम् । सिद्धं नः समीहितम् ।' विष्णुशर्मोवाच- एतावता भवतामभिलषित सम्पन्नम् । अपर- मपीदमस्तु--- मित्रं प्राप्नुत सज्जना जनपदैर्लक्ष्मीः समालम्ब्यताँ भूपालाः परिपालयन्तु वसुधां शश्वत्स्वधर्मे स्थिताः । आस्तां मानसतुष्टये सुकृतिनां नीतिर्नवोदेव वः कल्याणं कुरुतां जनस्य भगवॉश्चन्द्रार्धचूडामणिः ॥२२६॥ इति विष्णुशर्मसंगृहीते हितोपदेशे मित्रलाभः प्रथमः ॥ १ ॥ TE 480 M ,,

//

६०। १०