पृष्ठम्:हितोपदेशः.djvu/५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
(५०)
[ हितोपदेशे-
 


अपर च-

 निरुत्साहं निरानन्दं निर्वीर्यमरिनन्दनम् ।
मा स्म सीमन्तिनी काचिजनयेत्पुत्रमीदृशम् ॥ ७ ॥

तथा चोक्तम्-

अलब्धं चैव लिप्सेत लब्धं रक्षेदवेक्षया ।
रक्षितं वर्धयेत्सम्यग्वृद्धं तीर्थेषु निक्षिपेत् ॥ ८॥

 यतो लब्धुमिच्छतोऽर्थयागादथस्य प्राप्तिरेव । लब्धस्याप्यरक्षितस्य निर्धरपि स्वय विनाशः । अपि च, अवर्धमानश्चार्थ, कालेन स्वल्पव्ययोऽग्यञ्जनवत्क्षय- मेति । अनुपभुज्यमानश्च निष्प्रयोजन एव सः । तथा चोक्तम्-

अञ्जनस्य क्षयं दृष्ट्वा वल्मीकस्य च संचयम् ।
अवन्ध्यं दिवसं कुर्यादानाध्ययनकर्मसु ॥ ९ ॥

 इति सचिन्त्य वद्धमानः नन्दकसञ्जीवकनामानौ वृषभौ बुरि नियोज्य शकर्ट नानाविधद्रव्यपूण कृत्वा वाणिज्येन गतः काश्मीर प्रति । यत -

कोऽतिभारः समर्थानां किं दूरं व्यवसायिनाम् ।
को विदेशः सविद्यानां कः परः प्रियवादिनाम् ॥१०॥

 अथ गच्छदस्तस्य सुदुर्गनाम्नि महारण्ये सञ्जीवको भग्नजानुर्निपतित । एतदा- लोक्य वर्धमानोऽचिन्तयत्-

 करोतु नाम नीतिज्ञो व्यवसायमितस्ततः ।
फलं पुनस्तदेवस्य यद्विधेर्मनसि स्थितम् ॥ ११ ॥

कि तु--

विस्मयः सर्वथा हेयः प्रत्यूहः सर्वकर्मणाम् ।
तस्माद्विस्मयमुत्सृज्य साध्ये सिद्धिार्बधीयताम्॥१२॥

 इति सञ्चिन्त्य सञ्जीवक तत्र परित्यज्य वर्धमान पुन स्वय धर्मपुर नाम नगर गत्वा महाकायमन्य वृषभमेक समानीय बुरि नियोज्य चलितः । ततः सजीवकोऽपि कथकथमपि खुरत्रये भर कृत्वोत्थितः । यत ----

निमग्नस्य पयोराशौ पर्वतात्पाततस्य च ।
तक्षकेणापि दष्टस्य स्वायुर्ममणि रक्षति ॥ १३ ॥