अपर च-
नाकाले म्रियते जन्तुर्विद्धः शरशतैरपि ।
कुशाग्रेणैव संस्पृष्टः प्राप्तकालो न जीवति ॥ १४ ॥
यतः-
अक्षतं तिष्ठति दैवक्षित
सुरक्षितं दैवहतं विनश्यति ।
जीवत्यनाथोऽपि वने विसर्जितः
| कृतप्रयत्नोऽपि गृहे न जीवति ॥ १५ ॥
ततो दिनेषु गच्छत्सु संजीवकः स्वेच्छाहारविहार कृत्वारण्यं भ्राम्यन् हृष्ट- पुष्टाङ्गो बलवन्ननाद । तस्मिन्वने पिङ्गलनामा सिंहः स्वभुजोपार्जितराज्य- सुखमनुभवनिवसति । तथा चोक्तम्-
नाभिषेको न संस्कारः सिंहस्य क्रियते मृगैः ।।
विक्रमार्जितराज्यस्य स्वयमेव मृगेन्द्रता ॥ १६॥
स चैकदा पिपासाकुलित पानीय पातु यमुनाकन्छमगच्छत् । तेन च तत्र मिहेनाननुभूतपूर्वमकालघनगर्जितमिव सजीवकनर्दितमश्रावि। तच्छुत्वा पानीय- मपीत्वा सचकित परावृत्य स्वस्थानमागत्य किमिदमित्यालोचयस्तूष्णीं स्थितः । स च तथाविध करटकदमनकाभ्यामस्य मन्त्रिपुत्राभ्या शृगालाभ्या दृष्टः । त तथाविव दृष्ट्वा दमनकः करटकमाह- * सखे करटक । किमित्ययमुदकार्थी स्वामी पानीयमपीत्वा सचकितो मन्दमवतिष्ठते १' । करटको ब्रूते-* मित्र दमनक । अस्मन्मतेनास्य संवैव न क्रियते । यदि तथा भवति तर्हि किमनेन स्वामिचेष्टानिरूपणेनास्माकम?--यतोऽनेन राज्ञा विनापरावेन चिर- मववीरिताभ्यामावाभ्या महदुःखमनुभूतम्-
सेवया धनमिच्छद्भिः सेवकैः पश्य यत्कृतम् ।
स्वातन्त्र्यं यच्छरीरस्य मूडैस्तदपि हारितम् ॥ १७ ॥
अपर च-
शीतवातातपक्केशान्सहन्ते यान्पराश्रिताः।
तदंशेनापि मेधावी तपस्तत्वा सुखी भवेत् ॥ १८ ॥