पृष्ठम्:हितोपदेशः.djvu/५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
(५२)
[ हितोपदेशे-
 


अन्यच्च-

एतावज्जन्मसाफल्यं यदनायत्तवृत्तिता ।।
ये पराधीनता यातास्ते वै जीवन्ति के मुताः ॥ १९॥

अपर च-

एहि गच्छ पतोत्तिष्ठ वद मौनं समाचर ।
एवमशाग्रहग्रस्तैः क्रीडन्ति धानिनोऽथिभिः ॥२०॥

किच-

अबुधैरर्थलाभाय पण्यस्त्रीभिरिव स्वयम् ।
आत्मा संस्कृत्य संस्कृत्य परोपकरणीकृतः ॥ २१ ॥

अन्यच्च-

या प्रकृत्यैव चपला निपतत्यशुचावपि ।
स्वामिनो बहु मन्यन्ते दृष्टिं तामपि सेवकाः ॥ २२ ॥

अपर च-

मौनान्मूर्खः प्रवचनपटुर्वातुलो जल्पको वा
क्षान्त्या भीरुर्यदि न सहते प्रायशो नाभिजातः ।
धृष्टः पावें वसति नियतं दूरतश्चाप्रगल्भः
सेवाधर्मः परमगहनो योगिनामप्यगम्यः ॥२३॥

विशेषतश्च-

प्रणमत्युन्नतिहेतोर्जीवितहेतोर्विमुञ्चति प्राणान् ।
दुःखीयात सुखहेतोः को मूढः सेवकादन्यः ॥ २४ ॥

दमनको ब्रूते-* मित्र । सर्वथा मनसापि नैतत्कर्तव्यम् । यत -

कथं नाम न सेव्यते यत्नतः परमेश्वराः ।
आचरेणैव ये तुष्टाः पूरयान्ति मनोरथान् ॥ २५ ॥

अन्यच्च पश्य-

कुतः सेवाविहीनानां चामरोद्धृतसंपदः।
उद्दण्डधवलच्छत्रं वाजिवारणवाहिनी ॥ २६॥