पृष्ठम्:हितोपदेशः.djvu/५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुद्धेदः. ] करटको ब्रूते- ' तथापि किमनेनास्माक व्यापारेण १ यतोऽव्यापारेषु व्यापार सर्वथा पारिहरणीय. । पश्य- अव्यापारेषु व्यापार यो नरः कर्तुमिच्छति । स भूमौ निहतः शेते कीलोत्पाटीव वानरः ॥२७॥ दमनक. पृच्छति-* कथमेतत् १ करटक कथयति-- कथा १. मगधदेश धर्मारण्यसनिहितवसुधाया शुभदत्तनाम्ना कायस्थेन प्रासाद' कर्त- मारब्ध । वत्र करपत्रदार्यमाणैकस्तम्भस्य कियहूरस्फाटितस्य काष्ठखण्डद्वयमध्ये कोलकः सूत्रधारेण निहित , तत्र बलवान्वानरयूथ क्रीडचागतः । तेषु एको वानरः कालप्रेरित इव त कीलक हस्ताभ्या धृत्वोपविष्ट । तत्र तस्य मुष्कद्वयं लम्बमान काष्ठखण्डद्वयाभ्यन्तरे प्रविष्टम् । अवन्तर स च सहजचपलतया महता प्रयत्नेन त कीलकमाकृष्टवान्, आकृष्टे च कीलके काष्ठाभ्या चूर्णिताण्डद्वय. पञ्चत्व गतः । अतोऽह ब्रवीमि-अव्यापारेषु व्यापारम्' इत्यादि । | दमनको ब्रूते- तथापि स्वामिचेष्टानिरूपण सेवकेनावश्य करणीयम् ।' करटको ब्रूते-- * सर्वस्मिन्नविकारे य एव नियुक्त प्रधानमन्त्री से करोतु । यतोऽनुजीविना पराधिकारचर्चा सर्वथा न कर्तव्यो । पश्य- पराधिकारचर्चा यः कुर्यात्स्वामिाहतेच्छया । स विषीदातचीत्काराद्र्दभस्ताडितो यथा ॥ २८ ॥ दमनक. पृच्छति- ' कथमेतत् १' करटको ब्रूते-- कथा २,

  • अस्ति धाराणस्या करपटो नाम रजकः । स चैकदाभिनववयस्कया वध्वा

सह चिरं निधुवन कृत्वा निर्भरमालिङ्ग्य प्रसुप्त । तदनन्तरं तद्गृहद्रव्याणि हतु चौर' प्रविष्ट. । तस्य प्राङ्गणे गर्दभो बद्धस्तिष्ठति, कुक्कुरश्चोपविष्टोऽस्ति । अथ गर्दभ श्वानमाह- सखे ! भवतस्तावदय व्यापार , तत्किमिति त्वमुच्चैः शब्दं कृत्वा स्वामिन न जागरयसि १ ' कुक्कुरो ब्रूते -* भद्र ! मुम नियोगस्य