जीविते यस्य जीवन्ति विप्रा मित्राणि बान्धवाः ।
सफलं जीवितं तस्य आत्मार्थे को न जीवति ॥ ३३॥
अपि च-
यस्मिञ्जीवति जीवन्ति बहवः स तु जीवतु ।
बकोऽपि किं न कुरुते चच्वा स्वोदरपूरणम् ॥ ३४॥
पश्य-
पञ्चाभर्याति दासत्वं पुराणैः कोऽपि मानवः ।
कोऽपि लक्षैः कृती कोऽपि लभैरपि न लभ्यते ॥ ३५॥
यतः-
मनुष्यजात तुल्यायां भृत्यत्वमतिगर्हितम् ।।
प्रथमो यो न तत्रापि स किं जीवत्सु गण्यते ॥ ३६॥
तथा चोक्तम्-
वाजिवारणलोहाना काष्ठपाषाणवाससाम् ।
नारीपुरुषतोयानामन्तर महदन्तरम् ॥ ३७॥
तथाहि--
स्वल्पस्नायुवसावशेषमालिनं निमसमप्यस्थिक
श्वा लब्ध्वा परितोषमेति न भवेत्तस्य क्षुधः शान्तये ।
सिंहो जम्बुकमङ्कमागतमपि त्यक्त्वा निहन्ति द्विप
सर्वःकृच्छ्रगतोऽपि वाञ्छति जनःसत्त्वानुरूपं फलम्॥३८॥
अपर च सेव्यसेवकयोरन्तर पश्य-
लांगूलचालनमधश्चरणावपातं
भूमा नपत्य वदनोदरदर्शनं च ।
श्वा पिण्डदस्य कुरुते गजपुङ्गवस्तु
धीरं विलोकयति चाटुशतैश्च भुङ्क्॥ ३९ ॥
कि च--
यज्जीव्यते क्षणमपि प्रथितं मनुष्यै-
विज्ञानविक्रमयशोभिरभज्यमानम् ।