पृष्ठम्:हितोपदेशः.djvu/५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(५६) [ हितोपदेशे तन्नाम जीवितामह प्रवदन्ति तज्ज्ञाः काकोऽपि जीवाते चिराय बलिं च भुक्@ ॥ ४० ॥ अपरमपि-- अहितहितविचारशून्यबुद्धेः | श्रुतिसमयैर्बहुभिस्तिरस्कृतस्य । उदरभरणमात्रकेवलेच्छोः पुरुषपशोश्च पशोश्च को विशेषः ॥ ११ ॥ करटको ब्रूते--- आवा तावदप्रधानौ । ततोऽप्यावयोः किमनया विचारणया १ दमनको ब्रूते--' कियता कालेनामात्या' प्रधानतामप्रधानता वा लभन्ते।यत्नः-- न कस्यचित्कश्चिदिह स्वभावा- | द्रवत्युदारोऽभिमतः खलो वा। लोके गुरुत्वं विपरीततां वा । स्वचेष्टितान्येव नरें नयन्ति ॥ ४२ ॥ कि च-- | आरोप्यते शिला शैले यत्नेन महता यथा ।। निपात्यते क्षणेनाधस्तथात्मा गुणदोषयोः ॥ ४३ ॥ तद्भद्रम्, स्वयत्नायत्तो ह्यात्मा सर्वस्य-- यात्यधोऽधो व्रजत्युञ्चैर्नरः स्वैरेव कर्मभिः । कूपस्य खनिता यद्वत्प्राकारस्येव कारकः॥ ४४ ॥ करटको ब्रूते-* अथ भवान्कि ब्रवीति १ । स आह- अय तावत्स्वामी पिङ्गलकः पानीयमपीत्वा कुतोऽपि भयात्सचकित परावृत्योपविष्ट. ।' करटको ब्रूते-' कि तत्त्व जानासि १ ' दमनको ब्रूते-* कि प्रज्ञावतामविदितमस्ति ? उक्त च- उदीरितोऽर्थः पशुनापि गृह्यते हयाश्च नागाश्च वहन्ति चोदिताः। अनुक्तमप्यूहात पण्डितो जनः परेङ्गितज्ञानफला हि बुद्धयः ॥ ४५ ॥