आकारैराङ्गतैर्गत्या चेष्टया भाषणेन च ।
नेत्रव¥विकारेण लक्ष्यतेऽन्तर्गतं मनः ॥ ४६॥
अत्र भयप्रस्तावे प्रज्ञाबलेनाहमेन स्वामिनमात्मीयं कारष्यामि । यतः--
प्रस्तावसदृशं वाक्यं सद्भावसदृशं प्रियम् ।
आत्मशक्तिसमें कोर्प यो जानाति स पण्डितः ॥४७॥
करटको ब्रूते-* सखे ! त्व सेवानभिज्ञ । पश्य----
अनाहूतो विशेद्यस्तु अपृष्टो बहु भाषते ।
आत्मानं मन्यते प्रीतं भूपालस्य स दुर्मतिः ॥ ४८ ॥
दमनको ब्रूते-* भद्र । कथमह सेवानभिज्ञ' १ पश्य-
किमप्यस्ति स्वभावेन सुन्दरं वाप्यसुन्दरम् ।
यदेव रोचते यस्मै भवेत्तत्तस्य सुन्दरम् ॥४९॥
यत -
यस्य यस्य हि यो भावस्तेन तेन हि तं नरम् ।
अनुप्रविश्य मेधावी क्षिप्रमात्मवश नयेत् ॥ ५० ॥
अन्यच्च-
कोऽत्रेत्यहामिति ब्रूयात्सम्यगादेशयेति च ।
आज्ञामावतथा कुर्याद्यथाशक्ति महीपतेः॥५१॥
अपर च-
अल्पेच्छधृतिमान्प्राज्ञश्छायेवानुगतः सदा ।
आदिष्टो न विकल्पेत स राजवसतौ वसेत् ॥ ५२ ॥
करटको ब्रूते कदाचित्वामनवसरप्रवेशादवमन्यते स्वामी । ' स चाह-
- अस्त्वेवम्, तथाप्यनुजीविना स्वामिसान्निध्यमवश्य करणीयम् । यतः-
दोषभीतेरनारम्भस्तत्कापुरुषलक्षणम् ।
कैरजीर्णभयाद्भ्रातर्भोजनं परिहीयते ॥ ५३॥
पृश्य-
आसन्नमेव नृपतिर्भजते मनुष्य
विद्याविहीनमकुलीनमपण्डितं वा ।