पृष्ठम्:हितोपदेशः.djvu/५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
(५८)
[ हितोपदेशे-
 


प्रायेण भूमिपतयः प्रमदा लताश्च ।
यः पार्श्वतो वसति तं परिवेष्टयन्ति ॥ ५४ ॥

 करटको ब्रूते- अथ तत्र गत्वा कि वक्ष्यति भवान् । ' स आह-शृणु । किमनुरक्तो विरक्तो वा मथि स्वामीति ज्ञास्यामि ।' करटको ब्रूते-६ कि तज्ज्ञानलक्षणम् १ ' दमनको ब्रूते-‘शृणु-

दूरादेवेक्षण हासः संप्रश्लेष्वादरो भृशम् ।
परोक्षेऽपि गुणश्लाघा स्मरणं प्रियवस्तुषु ॥ ५५ ॥
असेवके चातुरक्तिर्दानं सुप्रियभाषणम् ।
अनुरक्तस्य चिह्नानि दोषेऽपि गुणसंग्रहः ॥५६॥

अन्यच् -

कालयापनमाशानां वर्धनं फलखण्डनम् ।
विरक्तेश्वरचिह्नाने जानीयान्मतिमान्नरः ॥ ५७ ।।

एतज्ज्ञात्वा यथा चाय ममायत्तो भविष्यति तथा करिष्यामि । यत’--

अपायसन्दर्शनज विपत्ति-
मुपायसन्दर्शनजां च सिद्धम् ।।
मेधाविनो नीतिविधिप्रयुक्त
पुरः स्फुरन्तीमिव दर्शयन्ति ॥ ५८ ॥

अपर च--

दोषा गुणा गुणा दोषा दोषा दोषा गुणा गुणाः ।
रक्ते विरक्ते मध्यस्थे स्वामिनि त्रिविधा गुणाः ॥ ५९॥

करटको ब्रूते-* तथान्यप्राप्ते प्रस्तावे न वक्तुमर्हसि । यत -

अप्राप्तकालवचनं बृहस्पातरापि ब्रुवन् ।
प्राप्नुयायवज्ञानमपमानं च शाश्वतम् ॥ ६० ॥

दमनको ब्रूते-मित्र ! मा भैषी । नाहमप्राप्तावसर वचन वदिष्यामि । यतः-

आपशुन्मार्गगमने कार्यकालात्ययेषु च ।
अपृष्ठेनापि वक्तव्यं भृत्येन हितमिच्छता ॥६१ ॥