एतत् पृष्ठम् परिष्कृतम् अस्ति
(६)
[ हितोपदेशे-
 

कथारम्भः ।

 अस्ति भागीरथीतीरे पाटलिपुत्रनामधेय नगरम् । तत्र सर्वस्वामिगुणोपेत सुदर्शनो नाम नरपतिरासीत् । स भूपतिरेकदा केनापि पठ्यमानं श्लोकद्वयं शुश्राव-

"अनेकसंशयोच्छेदि परोक्षार्थस्य दर्शकम् ।
सर्वस्य लोचनं शास्त्रं यस्य नास्त्यन्ध एव सः॥ १० ॥
यौवनं धनसंपत्तिः प्रभुत्वमविवेकिता।।
एकैकमप्यनर्थाय किमु यत्र चतुष्टयम् ॥ ११ ॥
"

 इत्याकर्ण्यात्मन पुत्राणामनधिगतशास्त्राणां नित्यमुन्मार्गगामिना शास्त्राननुष्ठानेनोद्विग्नमना स राजा चिन्तयामास-

"कोऽर्थः पुत्रेण जातेन यो न विद्वान्न धार्मिकः ।।
काणेन चक्षुषा किं वा चक्षुःपीडैव केवलम् ॥ १२ ॥
अजातमृतमूर्खाणां वरमाद्यौ न चान्तिमः।
सकृद्दुःखकरावाद्यावन्तिमस्तु पदेपदे ॥ १३ ॥

किञ्च-

स जातो येन जातेन याति वंशः समुन्नतिम् ।
परिवर्तिनि संसारे मृतः को वा न जायते ॥ १४ ॥

अन्यच्च-

गुणिगणगणनारम्भे न पतति कठिनी सुसंभ्रमाद्यस्य ।
तेनाम्बा यदि सुतिनी वद वन्ध्या कीदृशी भवति॥१५॥

अपि च-

दाने तपसि शौर्ये च यस्य न प्रथितं यशः।
विद्यायामर्थलाभे च मातुरुच्चार एव सः ॥ १६ ॥

अपरं च-

वरमेको गुणी पुत्रो न च मूर्खशतान्यपि ।
एकश्चन्द्रस्तमो हन्ति न च तारागणोऽपि च ॥ १७ ॥