पृष्ठम्:हितोपदेशः.djvu/६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
(६०)
[ हितोपदेशे-
 


निर्विशेषो यदा राजा समं सर्वेषु वर्तते ।
तदोद्यमसमर्थानामुत्साहः परिहीयते ॥ ६७ ॥

किच-

विविधाः पुरुषा राजनुत्तमाधममध्यमाः ।
नियोजयेत्तथैवैतांत्रिविधेष्वेव कर्मसु ॥ ६८ ॥

यत'-

न एव हि योज्यन्ते भृत्याश्चाभरणानि च ।
न हि चूडामणिः पादे नूपुरं शिरसा तथा ॥ ६९ ॥

अपि च--

कनकभूषणसंग्रहणोचितो
यदि मणिस्त्रपुणि प्रणिधीयते।
न स विरौति न चापि स शोभते
भवति योजयितुर्वचनीयता ॥ ७० ॥

अन्यच्च-

मुकुटे रोपितः काचश्चरणाभरणे मणिः ।
न हि दोषो मणेरस्ति किं तु साधोरविज्ञता ॥७१ ॥

पश्य--

बुद्धिमाननुरक्तोऽयमिहोभयगुणो जनः ।
इति भृत्यविचारज्ञो भृत्यैरापूर्यते नृपः ॥ ७२ ॥

तथा हि-

अश्वः शस्त्र शास्त्र वीणा वाणी नरश्च नारी च ।
पुरुषविशेष प्राप्ता भवन्ति योग्या अयोग्याश्च ॥ ७३ ॥

अन्यच्च-

किं भक्तेनासमर्थेन किं शक्तेनापकारिणा ।
भक्तं शक्तं च मी राजन्नावज्ञातुं त्वमर्हसि ॥ ७४ ॥