अन्यच्च-
तृणानि नोन्मूलयति प्रभञ्जनो |
ततस्तौ सजीवक कियहरे संस्थाप्य पिङ्गलकसमीप गतौ । ततो राज्ञा सादरमवलोकितौ प्रणम्योपविष्टौ । राजाह- त्वया स दृष्ट' १' दमनको ब्रूते-
- देव ! कि तु यद्देवेन ज्ञात तत्तथा । महानेवासौ देवं द्रष्टुमिच्छति । तत् सज़ी-
भूयोपविश्यताम्, शब्दमात्रादेव न भेतव्यम् । तथा चोक्तम्-
शब्दमात्रान्न भेतव्यमज्ञात्वा शब्दकारणम् ।। |
राजाह--- कथमेतत् ।' दमनक कथनति--
कथा ४,
अस्ति श्रीपर्वतमध्ये ब्रह्मपुराख्य नगरम् । तच्छिखरप्रदेशे घण्टाकण नाम राक्षसः प्रतिवसतीनि जनप्रवाद श्रूयते । एकदा घण्टामादाय पला- यमानः कश्चिचोरो व्याघ्ण व्यापादित , तत्पाणिपतिता घण्टा वानरै प्राप्ती । वानरास्ता घण्टामनुक्षण वादयन्ति । ततो नगरजनै स चोरः खादितो दृष्ट', प्रतिक्षण घण्टारवश्च श्रूयते । अनन्तर घण्टाकण कुपितो मनुष्यान् खादति, घण्टा च वादयतीत्युक्त्वा सर्वे जना नगरात्पलायिता । तत करालनाम्न्या कुट्टिन्या विमृश्यानवसरोऽय घण्टावाद । तत्कि मर्कटा घण्टा वादयन्तीति स्वय विज्ञाय राजा विज्ञापित --- देव । यदि कियद्धनोपक्षय क्रियते, तदहमेन घण्टाकर्णं साधयामि ।' ततो राज्ञा तस्यै धन दत्तम् । कुट्टिन्या च मण्डल कृत्वा तत्र गणेशादिपूजागौरव दर्शयित्वा स्वय वानरप्रियफलान्यादाय वन प्रविश्य फलान्याकीर्णानि । ततो घण्टा परित्यज्य वानराः फलासक्ता बभूवुः । कुट्टिनी च घण्टा गृहीत्वा नगरमागता सर्वजनपूज्याभवत् । अतोऽहं ब्रवीमि-- शब्द- मात्रान्न भेतव्यम्' इत्यादि ।