ब्राह्मणः क्षत्रियो बन्धुनाधिकारे प्रशस्यते ।
ब्राह्मणः सिद्धमप्यर्थं कृच्छ्रेणापि न यच्छति ॥ ९४ ॥
नियुक्तः क्षत्रियो द्रव्ये खङ्गं दर्शयते ध्रुवम् ।
सर्वस्व असते बन्धुराक्रम्य ज्ञातिभावतः ॥ ९५ ॥
अपराधेऽपि निःशङ्को नियोगी चिरसेवकः ।
स स्वामिनमवज्ञाय चरेञ्च निरवग्रहः ॥ ९६॥
उपकर्ताधिकारस्थः स्वापराधं न मन्यते ।
उपकारं ध्वजीकृत्य सर्वमेवावलुम्पति ॥ ९७॥
उपांशु क्रीडितोऽमात्यः स्वयं राजायते यतः ।
अवज्ञा क्रियते तेन सदा परिचयादुधुवम् ॥९८॥
अन्तर्दुष्टः क्षमायुक्तः सर्वानर्थकरः किल ।।
शकुनिः शकटारश्च दृष्टान्तावत्र भूपते ॥ ९९ ॥
सदामात्यो न साध्यः स्यात्समृद्धः सर्व एव हि ।
सिद्धानामयमादेश ऋद्धिश्चित्तविकारिणी ॥ १०० ॥
प्राप्तार्थग्रहणं द्रव्यपरीवर्ताऽनुरोधनम् ।।
उपेक्षा बुद्धिहीनत्वं भोगोऽमात्यस्य दूषणम् ॥ १०१ ।।
नियोगार्थग्रहापायो राज्ञां नित्यपरीक्षणम् ।
प्रतिपत्तिप्रदानं च तथा कर्मविपर्ययः ॥ १०२ ॥
निपीडिता वमन्त्युच्चैरन्तःसारं महीपते ।
दुष्टत्रणा इव प्रायो भवन्ति हि नियोगिनः ॥ १०३ ॥
मुहुर्नियोगिनो बोध्या वसुधारा महीपते।
सकृत्कि पीडितं स्नानवस्त्र मुश्चेतं पयः ॥ १०४॥
|
एतत्सर्व यथावसर ज्ञात्वा व्यवहर्तव्यम् ।' सिहो ब्रूते-* अस्ति तावदेवम्,
कि त्वेतौ सर्वथा न मम वचनकारिणौ ।' स्तब्धकर्णो ब्रूते-4 एतत्सर्वमनु-
चित सर्वथा । यत -
आज्ञाभङ्गकरान् राजा न क्षमेत्स्वसुतानापि ।
विशेषः को तु राज्ञश्च राज्ञश्चित्रगतस्य च ॥ १०५ ॥
|