स्तब्धस्य नश्यति यशो विषमस्य मैत्री
नष्टेन्द्रियस्य कुलमर्थपरस्य धर्मः ।
विद्याफलं व्यसनिनः कृपणस्य सौख्यं
राज्यं प्रमत्तसचिवस्य नराधिपस्य ॥ १०६ ॥
अपर च---
तस्करेभ्यो नियुक्तेभ्यः शत्रुभ्यो नृपवल्लभात् ।
नृपतिर्नजलोभाच्च प्रजा रक्षेत्पितेव हि ॥ १०७ ॥
भ्रात. ! सर्वथास्मद्वचन क्रियताम् । व्यवहारोऽप्यस्माभिः कृत एव । अयं सजीवक सस्यभक्षकोऽर्थाधिकारे नियुज्यताम्।' एतद्वचनात्तथानुष्ठिते सति तदा- रभ्य पिङ्गलकसजीवकयोः सर्वबन्धुपरित्यागेन महता नेहेन कालोऽतिवर्तते । ततोऽनुजीविनामप्याहारदाने शैथिल्यदर्शनाद्दमनककरटकावन्योन्य चिन्तयत । तदाह दमनक करटकम्-* मित्र ! कि कर्तव्यम् १ आत्मकृतोऽय दोषः, स्वयं कृतेऽपि दोषे पारिदेवनग्यनुचितम् । तथा चोक्तम्--
स्वर्णरेखामहं स्पृष्ट्वा बद्धात्मानं च दूतिका ।
आदित्सुश्च मणि साधुः स्वदोषाहुःखिता इमे ॥१०८॥
करटको ब्रूते-‘कथमेतत् १' दमनकः कथयति-
कथा ५,
अस्ति काञ्चनपुरनाम्नि नगरे वीरावक्रमो राजा । तस्य धर्माधिकारिणी कश्चिनापितो वध्यभूमि नीयमान कन्दर्यकेतुनाश्ना परिव्राजकेन साधुद्वितीयकेन नाय हन्तव्य इत्युक्त्वा वस्त्राञ्चले वृत । राजपुरुषा ऊचु - किमिति नाय वध्य १ ' स आह-* श्रूयताम् ।' * स्वर्णरेखामह स्पृष्ट्वा ' इत्यादि पठति । त आहु -* कथमेतत् १' पारिव्राजकः कथयति-* अस्ति सिहलद्वीपे भूपतेजमूत- केतो पुत्र कन्दर्पकेतुर्नाम । एकदा केलिकाननावस्थितेन मया पोतवणिमुखा- च्छूत यदत्र समुद्रमध्ये चतुर्दश्यामाविर्भूतकल्पतरुतले रत्नावलीकिरणकर्बरपर्यङ्के स्थिता सर्वालङ्कारभूषिता लक्ष्मीरिव वीणा वादयन्ती कन्या काचिद्दश्यत इति । ततोऽहं पोतवणिजमादाय पोतमारुह्य तत्र गतः । अनन्तर तत्र गत्वा पयङ्केऽर्धमग्ना